SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ कारकवादार्थः। स्य दानेऽसंभवात् । तादृशेच्छाया एव दानत्वात, गौरवाच्चेति दिक् । एवं वृक्षायोदकमासिंचतीत्यादौ संयोगावच्छिन्नद्रवद्रव्यक्रियावच्छिन्नव्यापारो धात्वर्थः, वृत्तित्वेनेच्छाविषयत्वं चतुर्थ्यर्थः। सच धावतावच्छेदके संयोगेन्वेति । वृत्तित्वरूपद्वितीयार्थोपि तादृशद्रवद्रव्यक्रियायाम् । एवं च वृक्षवृत्तित्वेनेच्छाविषयसंयोगानुकूलद्रवद्रव्यत्तिक्रियानुकूलव्यापारानुकूलकतिमानित्यन्वयधीरिति।अत्र क्रियातस्य धात्वर्थत्वे वृक्षस्य कमत्व स्यात्, नतु जलस्य। क्रियाया वृक्षापेक्षयैव समवेतत्वात् । नचैवं पयसा वृक्षमासिंचतीत्यादौ कमत्वं न स्यात् । धात्वर्थतावच्छेदकक्रियाया वृक्षावृत्तित्वादिति वाच्यम् । अत्र क्रियांतस्य धात्वर्थतया धात्वर्थतावच्छेदकद्रवद्रव्यसंयोगस्य वृक्षवृत्तित्वाद्दवद्रव्यसंयोग एव धात्वर्थ इति न युक्तम् । तर्हि फलावच्छिन्नव्यापाराबोधकत्वाद्धातोरकर्मकत्वं । धात्वर्थतावच्छेदकफलशालित्वाभावात् वृक्षादरकर्मकत्वं स्यात् । अत्राजां ग्रामं नयतीतिवविकर्मकत्वं स्यादिति नाशंकनीयम् । क्रियांतार्थत्वे धात्वर्थतावच्छेदकफलद्वयाभावात् । तादृशक्रियानुकूलव्यापारार्थत्वे च क्रियायामेव द्वितीयार्थवृत्तित्वान्वयात् । क्रियावच्छेदकसंयोगे तु वृक्षायेत्यादिचतुर्थ्यर्थस्योद्देश्यत्वस्यैवान्वयः-न द्वितीयार्थस्य । व्युत्पत्तिवैचित्र्यात् । चतुर्थीसमभिव्याहृतस्य सिन्धातोस्तादृशव्यापारार्थत्वात् । अत एवाजां ग्रामं नयतीत्यत्र ग्रामस्य न संप्रदानत्वम् । अत्र हि संयोगावच्छिन्नक्रियानकूलव्यापारः प्रेरणं धात्वर्थः, द्वितीयार्थो वृत्तित्वं । संयोगे
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy