SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ २२ कारकवादार्थः । फलितम् । ग्रामं गच्छतीत्यादौ गमन कर्मग्रामजन्यसुखभागित्वेनोद्देश्यस्य चैत्रादेस्तत्क्रियायां संप्रदानत्वाभावात्तद्वारणाय करणीभूतेति । गमनक्रियायां ग्रामस्याकरणत्वान्न दोषः । दानादौ देयादिकं करणमिति प्रकृतिसंगतिपितृस्वर्गोद्देश्येन कृतगोदानस्थले दानजन्यफलभागित्वेनैव पितोद्देश्यः- नतु गोजन्यफलभागित्वेनेति न पित्रादेः संप्रदानत्वं । अत एव पित्रे गां ददातीति न प्रयोगः । यदि चाहटद्वारा दत्ता गौः पितुः स्वर्गमुत्पादयिष्यतीत्यभिसंधिस्तदा फले कर्मजन्यत्वमदृष्टद्वारकं ग्राह्यं । अत एव न स्वस्मिन्स्वकर्तृकदान संप्रदानत्वापत्तिः । न वा चैत्रश्चैत्राय गां ददातीति प्रयोगप्रसंगः । वस्तुतो धात्वर्थतावच्छेदकत्वेन फलं विशेष्यम् । पितुः स्वर्गादिकं न तथेत्यदोषः । इत्थं च विप्राय गां ददातीत्यत्र संबंधित्वेन परेच्छाविषयत्वं चतुर्थ्यर्थः । चैत्राय चैत्रो ग्रामं गच्छतीत्यादिवारणाय परेति । स च धात्वर्थतावच्छेदकफलेऽन्वेति । वृत्तित्वं द्वितीयार्थः । तथा च गोवृत्तिस्वस्वत्वध्वंस विप्रसंबंधित्वेन परेच्छाविषयपूर्वकपरस्वत्वानुकूलत्यागानुकूलकृतिमानित्यन्वयधीः । यत्तु । अत्र जन्यफलप्रकारकेच्छापूर्वकत्वं क्रियान्वयि चतुर्थ्यर्थः । व्युत्पत्तिवैचित्र्याच्च तदेकदेशे जन्यत्वे कर्मणो गवादेर्निरूपितत्वसंबंधेनान्वयः । तथा च विप्रविषयकगोनिरूपितजन्यफलप्रकारकेच्छापूर्वकगोवृत्तिस्वस्वत्वध्वंसपरस्वत्वानुकूलत्यागानुकूलकृतिमानित्यन्वयधीरिति । तन्न । गोजन्यफलस्य प्रकृते स्वत्वरूपतया विप्रविषयिका या गोजन्यफलप्रकारकेच्छा तत्पूर्वकत्व
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy