________________
कारकवादार्थः। ण सहागतः पिता इत्यत्र तृतीयायाः कर्तृत्वमर्थः समभिव्याहृतक्रिया सहशब्दार्थ एककालीनत्वसंबंधेन समभिव्याहृतक्रियायामन्वयः । तथा च पुत्रकर्तृकागमनसमानकालीनागमनकर्तेत्यर्थः । शिष्येण सह गुरुर्बाह्मणः, पुत्रेण सह पिता सुंदरः । सहार्थो ब्राह्मणादिसमानकालीनत्वसंबंधेन ब्राह्मणत्वादिपदार्थैकदेशेन्वेति । अपरे तु सहार्थः साहित्यमेकधर्ममात्र, तृतीयार्थो वृत्तित्वं संख्यामात्रं वा-तथाच शिष्यवृत्तिसाहित्यवान्गुरुर्ब्राह्मण इत्याहुः।" एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयं । सहैव दशभिः पुत्रारं वहति गर्दशी ॥” इत्यादौ पुत्रेषु भारवहनकर्तृत्वाभावेऽपि सहप्रयोगे विद्यमानपदाध्याहारात् । विद्यमानत्वं साहित्यं सहशब्दार्थः । तथाच समानकालीनत्वसंबंधेन दशपुत्रवृत्तिविद्यमानत्वविशिष्टविद्यमानत्वाश्रयः । अतएव विद्यमानत्वं सहशब्दार्थ इति शाब्दिकाः। धान्येन धनी, गोत्रेण गार्ग्यः, प्रकृत्याभिरूपः इत्यादौ तृतीयाया अभेदोऽर्थः। तथा च धान्याभिन्नधनवान्, गोत्राभिन्नगर्गकुलोत्पन्नः, साहजिकाभिन्नरमणीयतावानित्यर्थः । प्रकृतिपदस्य साहजिकार्थत्वात् । अभिरूपपदस्य रमणीयतापदार्थत्वादिति दिक् ॥
इति करणनिरूपणम् । "कर्मणा यमभिप्रेति स संप्रदानम् ” इति पाणिनिसूत्रं । तकियाकरणीभूतेन तक्रियाकर्मणा यमभिप्रैति फलभागित्वेनोद्देशीकरोति स संप्रदानमिति वाक्यार्थः । करणीभूतकर्मजन्यफलभागित्वेनोद्देश्यत्वं संप्रदानत्वमिति