________________
कारकवादार्थः। पलक्षणे । तत्त्वं च अतद्वयावृत्त्यनवच्छेदकत्वे सत्यतयावृत्तिसामानाधिकरण्यम् । अस्ति च जटानां अतापसत्वव्यावृत्त्यनवच्छेदकत्वं, शमादिमत्त्वस्यैव तदन्यूनातिरिक्तवृत्तितया तदवच्छेदकत्वात् । शमादिना तापस इत्यप्रयोगोऽविवक्षातः । तथा प्रयोगस्येष्टत्वे तु विशेषणोपलक्षणसाधारणवैशिष्टयमेव तृतीयार्थः । अक्ष्णा काणः, पादेन खंज इत्यादौ “येनांगविकारः ” इत्यनेन तृतीया । येनांगेन विकारो हानिराधिक्यं वा तदंगबोधकात्तृतीया। तृतीयाया वृत्तित्वमर्थः । तच्च व्युत्पत्तिवैचिच्यात्काणादिपदार्थस्यैकदेशे विकारेऽन्वेति । काणत्वं बहिरवच्छेदेन चक्षुःशून्यगोलकवत्त्वं । जातमात्रांधस्याकाणत्वे तु चक्षुमद्रोलकत्वे सतीति वाच्यम् । यदि च बहिरवच्छेदेन चक्षु:सत्त्वेऽपि उपघातादेव न चाक्षुषं तदा गोलकवृत्तियत्तच्छूत्यत्वमुपघातो वा तद्विशिष्टः पुरुषः अक्ष्णा काण इत्यस्यार्थः । एवं खंजत्वं संस्थानविशेषणशून्यपदत्वं । तथाच पदवृत्ति यत्तथाविधसंस्थानशून्यत्वं तद्विशिष्टः पुरुष इति पादेन खंज इत्यस्यार्थः । परे तु-अक्ष्णा काण इत्यायोदे तृतीया। तथाच तादृशगोलकाभिन्नं यच्चक्षुःशून्यमुपहतं तहानिति वाक्यार्थः । एवं मुखेन त्रिलोचन इत्यत्र लोचनपदं लोचनत्रयविशिष्टवत्परम् । तथाच मुखादिभिन्नलोचनत्रयविशिष्टवानित्यर्थ इत्याहुः । धनेन कुलमित्यादौ हेतुत्वे तृतीया । क्रियान्वयिनिरुक्तकरणत्वार्थिका तृतीया "कर्तृकरणयोस्तृतीया" इत्यनेन विहिता, “हेतौ " इति सूत्रेण तु नामान्वितहेतुत्वार्थिकेति विशेषः । पुत्रे