SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कारकवादार्थः। व्यवहारभेदोपपत्तेः। इत्थं चानुमितौ व्याप्तिज्ञानं करणं । परामर्शस्य व्यापारत्वात् । चाक्षुषादौ चक्षुरादितत्संयोगस्य व्यापारत्वात् । श्रावणज्ञाने श्रोत्रं, मनःोत्रसंयोगस्य व्यापारस्य सत्त्वात् । नतु शब्दस्य । शब्दाभावप्रत्यक्षे तस्य व्यभिचारात् । परे तु फलानुकूलकर्तृव्यापारवत्त्वं । अस्ति च कुठारादिच्छिदानुकूलकर्तृसंयोगादिमत्त्वम् । नच गृहस्थाल्यायधिकरणस्यापि कर्तृव्यापारवत्त्वात्करणत्वापत्तिरिष्टत्वात् । स्थाल्यान्नं साधयतीत्यादिप्रयोगात् । गवा दानं साधयति, ब्राह्मणेन दानं साधयतीत्यादिप्रयोगात् । तत्रापि तदिष्टं, चैत्रात्मना चत्रेण वा पचतीत्यप्रयोगात् । कर्तुः शरीरस्य च वारणाय द्रव्यसमवायिभिन्नतत्तक्रियानुकूलकतिमतो भिन्नत्वेन विशेष्यम् । कृतिमत्त्वं समवायेनावच्छेदकतया च । तेन शरीरस्यापि व्युदासः । भिन्नत्यनेन हस्तादिसंग्रहः । हस्तादिना छिनत्तीति प्रयोगात् । व्यापारवत्त्वं जनकतया। तेन व्याप्तिस्मृत्यादिसाधारण्यमित्याहुः । अत्र परशुना छिनत्तीत्यादौ निरुक्तकरणत्वं तृतीयार्थः । प्रकृत्यान्वितस्य तस्य धात्वर्थनिरूपकत्वेनान्वयः । तथा परशुनिष्ठकरणतानिरूपकत्वच्छिदानुकूलकतिमानिति वाक्यार्थः-इति प्रांचः । नव्यास्तु परशुना छिनत्ति न दात्रणेत्यादौ नत्रान्वयानुरोधेन निरुक्तकरणत्वनिरूपितजन्यत्वमेव तृतीयार्थः। तस्य निरूपितत्वेन प्रकृत्यान्वितस्य आश्रयतया धात्वर्थे अन्वयः। इत्थं च परशुनिरूपितजन्यत्वदात्रनिरूपितजन्यत्वाभावश्च छिदायामन्तीत्याहुः । जटाभिस्तापस इत्यादौ तृतीयो
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy