SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १८ कारकवादार्थः। भेदार्थका । तस्याः कारकत्वानावस्तु क्रियान्वितकर्तृत्वाधन्वितत्वाभावात्-इति दिक् ॥ इति कर्मनिरूपणम् । करणत्वं कारकांतराचरितार्थत्वे सति क्रियाहेतुत्वं । कारकांतरनिष्ठव्यापारद्वारा क्रियाहेतुत्वाभावः सत्यतार्थः । कर्तृकारके आरंजकसंयोगप्रतिद्वंद्विविभागानुकूलकुठारादिक्रियाया एव च्छिदादिधात्वर्थतया कर्तुः कुठारादिकरणनिष्ठव्यापारद्वारा छिदादिहेतुत्वान्नातिप्रसंगः । कर्मणस्तु तादृशक्रियाहेतुत्वविरहादेव नातिप्रसंगः । अधिकरणमपि कर्तृकर्मान्यतरव्यापारद्वारा क्रियाहेतुः । चैत्रो गृहे स्थाल्यामोदनं पचतीत्यादौ गृहस्थाल्यायधिकरणं कर्तृकर्मसंयोगद्वारा पाकादिक्रियासाधनं संप्रदानं स्वानुमितिप्रकाशनेन कर्तुरिच्छाद्वारा दाननिमित्तं अपादानं पतनप्रतिबंधकसंयोगनाशकपत्रादिविभागद्वारा पतनादिनिमित्तमिति नातिप्रसंगः । नचैवं कुठारादिकरणस्यापि कर्तृनिष्ठव्यापारसापेक्षत्वादसंभवः । कारकांतरनिष्ठव्यापारसंबंधावच्छिन्नजनकत्वाभावस्य सत्यंतार्थतया कुठारादिक्रियायां, कुठारस्य तादात्म्यसंबंधेन हेतुतया कर्तृनिष्ठव्यापारसंबंधेनाहेतुत्वात् । नच कुठारादिव्यापारादावतिव्याप्तिरिति वाच्यम् । तस्यापि एतन्मते लक्ष्यत्वात् । अत एव फलायोगव्यवच्छिनं कारणं करणमिति वदंति । वस्तुतस्तु व्यापारवत्त्वे सति कारणं करणं । नचैवं कार्यमाञ ज्ञानादौ चादृष्टस्य मनोयोगस्य च व्यापारस्य सत्त्वादात्मनोऽपि करणत्वापत्तिरिष्टत्वात् । उपधेयसंकरे कर्तृत्वकरणत्वलक्षणोपाधेरसंकरात् ।
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy