________________
कारकवादार्थः ।
१७ ष्ठमिति । तन्न । काष्पदलक्ष्यस्य काष्ठावयवस्य कर्मतया क्रियायास्तन्नाशकत्वासंभवात् । अत्र हि काष्ठपदस्य का - ष्ठावयवो लुनातेरारम्भकसंयोगप्रतिद्वंद्विविभागानुकूलक्रियाव्यापारोर्थः । तथा च काष्ठावयववृत्त्यारंभकसंयोगप्रतिद्वंद्विविभागजनक क्रियानुकूलव्यापारानुकूलकृतिमानित्यन्वयधी रिति काष्टावयवस्य प्राप्यकर्मतैवावस्थांतरप्रात्यभावान्न विकार्यता । तण्डुलं पचतीत्यादौ तण्डुलपदलक्ष्यस्तंडुलावयवः पच्यर्थो रूपादिपरावृत्त्यवच्छिन्नो विक्लित्त्यवच्छिन्नतेजः संयोगः । तथाच धात्वर्थजन्य फलशालित्वात्सतोवस्थांतरप्राश्व उभयविधकर्मत्वं तंडुलावयवस्येष्टं असंकीर्णस्थानमुक्तमेवेत्यदोषः । यत्क्रियया निष्पद्यते तन्निर्वर्त्यम् । यथा घटं कटं वा करोतीत्यादौ घटादि । अत्र कृञः फलावच्छिनव्यापारबोधकत्वाभावाद्रौणकर्मत्वम् । तच्च साधनाख्यकृतिविषयत्वम् । अत एव वीरणं करोतीत्यादिर्न प्रयोगः । वीरणादावुपादानताख्यविषयताया एवं सत्त्वात् । यत्तु कटादिपदस्यावयवे निरूढलक्षणा । तत्र विना लक्षणां कटादेगणकर्मत्वसंभवेऽपि कारकत्वासंभवात् । निरूढलक्षणाया मुख्यप्रयोगापवादकत्वाच्च न वीरणं करोतीति मुख्यप्रयोग इति । तन्न । घटं जानाति अतीतमित्यादौ घटादेखि कटादेरपि गौणकारकत्वसंभवात् । स्तोकं पचतीत्यादौ क्रियाविशेषणपदांतरद्वितीयाविशेषणविभक्तिवत् प्रयोगसाधुत्वाय नामार्थधात्वर्थयोरभेदान्वयस्वीकारेणाभेदस्य संसर्गत्वात् । तदा स्वीकारे विशेषणविभक्तिवदस्तु सा