________________
१६
कारकवादार्थः ।
पदार्थः । तच्च स्वत्वं दानादितो नश्यति, प्रतिग्रहा - दितश्व स्वत्वमुत्पद्यते । तच्च बहिरिन्द्रिययोग्यं स्वं पश्यामीति प्रतीतेस्तदीययथेष्टविनियोज्यत्वज्ञानस्य तदीयस्वत्वसाक्षात्कारहेतुत्वात् । न यथेष्टविनियोगाद्यज्ञानदशायां स्वत्वसाक्षात्कारापत्तिः ॥ वस्तुतस्तदीययथेष्टविनियोज्यत्वे तदीयस्वत्वव्यभिचारित्वग्रहदशायां तद्ब्रहेऽपि स्वत्वसाक्षात्कारानुदयात् । तदीयस्वत्वसाक्षात्कारं प्रति तदीयस्वत्वव्याप्यतदीययथेष्टविनियोज्यत्ववदिदमित्याकारकज्ञानस्य हेतुत्वं वाच्यम् । तथा च स्वत्वस्यानुमितिरेव नतु साक्षात्कारः । स्वत्वे लौकिकविषयताकल्पने लौकिकविषयिताशालितत्साक्षात्कारे तादृग्विशेषदर्शनस्य हेतुत्वकल्पने च गौरवात् । स्वं पश्यामीत्यनुव्यवसायस्तु - सुरभि चन्दनं पश्यामीत्यादिवद्विशेषणांशो लौकिकविषयत्वावगाही। नचायोग्यत्वकल्पने लौकिकसाक्षात्कारे स्वत्वस्य प्रतिबंधकत्वकल्पने गौरवमिति वाच्यम् । तस्यायोग्यत्वकल्पने लौकिकविषयताविरहादेव तत्प्रत्यक्षवारणसंभवात् । योग्यत्वे तगोचरलौकिकप्रत्यक्षसामध्यास्तगोचरानुमित्यादौ गौरवादित्याहुः । तच्च कर्म त्रिविधं प्राप्यं, विकार्यं निर्वर्त्यं च । तत्र संयोगादिक्रियाजन्यफलशालि प्राप्यं । यथा - ग्रामं गच्छतीत्यादौ ग्रामादिः । यल्लब्धसत्ताकमेवावस्थांतरमापद्यते तद्विकार्यं । यथा का भस्म करोति, सुवर्ण कुंडलं करोतीत्यादौ काष्ठादिपदलक्ष्यस्य काष्ठावयवादेः सत एव भस्मादिसंबंधरूपावस्थांतरप्राप्तिः । यत्तु क्रिया यत्कर्मनाशकं फलं जनयति तद्विकार्यम् । यथा काष्ठं लुनातीत्यत्र का -
1