________________
कारकवादार्थः।
१५ न्न जातित्वमितिवाच्यम् । श्राद्धस्य गौणतदुभयरूपत्वात्। वस्तुतः श्राद्धस्य यागत्वमेव।उद्देश्यपित्रादिस्वत्वाजनकत्वात। ब्राह्मणस्य स्वत्वमपि न सार्वत्रिकम् । ब्राह्मणाभावेपि श्राद्धोक्तेः । “ पिंडास्तु गोऽजविप्रेन्य' इत्यादिनान्यत्रापि प्रतिपत्तेः । विष्णुं यजते इत्यादौ द्वितीयार्थोप्युद्देश्यत्वम् । तत्त्वं च तस्येदमित्यादिज्ञानविषयत्वं । देवतायाः स्वत्वोपगमे तु यागत्वं दानत्वव्याप्यं. होमत्वं यागत्वव्याप्यमिति सिद्धम् । देवपूजादिकमपि याग एवेति कृतमप्रकतेन । अत एवं संसृष्टिस्थलेऽसाधारणस्वत्वनाशोत्तरं साधारणस्वत्वोत्पादात् । तत्र सकलत्वविशेषणरहितदानलक्षणाव्याप्तिरित्यपास्तम् । दानवजातस्तत्राभावात् । परमत्र स्वत्वानुकूलत्वविशेषणात्-संसृष्टिनिरास इत्यन्ये । तत्र न स्वत्वनाश:-किंतु परस्वत्योत्पत्तिमात्रम् । नच स्वस्वत्ववति परस्वत्वानुपपत्तिः । तत्रेच्छाया उत्तेजकत्वात् । स्वस्वत्वध्वंमपूर्वकत्वविशेषणादेव तन्निरास इत्यन्ये । परे त्वदृष्टविशेषजनकत्वविशेषणात्नयावृत्तिरित्याहुः । एतेन विनिमये विक्रयलक्षणातिव्यातिरित्यपास्तम् । विक्रयत्वादेर्जातित्वात् । मूल्यातिरिक्तद्रव्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपरस्वखानुकूलत्यागो विनिमय इत्यन्ये । किमत्र स्वत्वमिति चेत् । अत्र प्राचीनाः । यथेष्टविनियोज्यत्वं स्वत्वं । तच्च शास्त्रानिषिद्धविनियोगोपायः क्रयप्रतिग्रहादिस्तद्विषयत्वम्। तच्च न बहिरिंद्रियवेद्यं । प्रतिग्रहादेर्मानसज्ञानविशेषस्य बहिरिंद्रियायोग्यत्वात् । नव्यास्तु प्रतिग्रहादिनाशोत्तरमपि स्वत्वव्यवहारप्रामाण्यानुरोधात् स्वत्वमतिरिक्त एव