________________
१४ कारकवादार्थः। तस्य तत्त्वमिति, न ततो दातुः स्वत्वनाश इति वाच्यम् । "तीर्थ संकल्पितं यद्यत्तदन्यत्र प्रदीयते । दाता तीर्थफलं मुं. के प्रतिग्राही न दोषभाक् ॥ मनसा पात्रमुद्दिश्य भूमौ तोयं विनिक्षिपेत् । विद्यते सागरस्यांतो दानस्यांतो न विद्यते ॥” इति वाक्यात्तादृशदानसिद्धेस्तस्मादानमेव परस्वत्वजनकं प्रतिग्रहप्रागभावस्यापेक्षणीयत्वात् न प्रतिग्रहवैफल्यं । अत एव यस्मै दत्तं तस्य प्रतिग्रहेण दातुः स्वत्वनिवृत्तिः । अस्तु वा दत्तद्रव्यस्वीकारत्वरूपप्रतिमहत्वेन स्वीकर्तव्यद्रव्यदानत्वेन वेति विनिगमकाभावात् । दानं स्वस्वत्वध्वंसद्वारा परस्वत्वजनकम् । प्रतिग्रहश्च स्वस्वत्वजनकः । उअयथापि मूल्यग्रहणं विनति व्यर्थ । विक्रयस्य परस्वत्वजनकत्वे मानाभावात् । नच विक्रीतद्रव्यस्वीकारत्वरूपक्रयत्वेन स्वीकर्तव्यद्रव्यविक्रयत्वेन वा क्रयत्वमित्यत्रापि विनिगमनाविरहः । मूल्यदानपूर्वकस्वीकारस्यैव क्रयत्वात् विक्रयत्वस्य गौरवेगानिवेशात् । किंच स्वस्वत्वध्वंसजनकेत्यपि व्यर्थ । अव्यावर्तकत्वात् । अपि चाग्निप्रक्षेपो होम इत्यपि अयुक्तं । देवतोदेश्यकस्वस्वत्वध्वंसफलकत्यागो यागः, स एव प्रक्षेपावच्छिन्नो होम इति वाचस्पतिमिश्राद्युक्तेः-, याग एवं विशिष्टदेशप्रक्षेपोपहितः होम इति विवेकोक्तेश्च । अस्तु च ऋत्विजां त्यागाद्यनुमानस्य स्वस्वत्वध्वंसोनमतः- दासत्यागात विदेशस्थस्वामिस्वस्वत्वध्वंसवत् । वस्तुतस्तु दानत्वयागत्वहोमत्वादयो मानसप्रत्यक्षगम्या जातिविशेषाः। न च श्राद्धस्य पित्रपेक्षया यागत्वं ब्राह्मणापेक्षया दानत्वमिति विवेकोक्तेस्तयोः सांकर्या