SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ कारकवादार्थः। द्देश्यकस्वस्वत्वध्वंसफलकत्यागानुकूलकृतिमानित्यन्वयबोधः । घृतवृत्तिअनिसंयोगावच्छिन्नक्रियानुकलव्यापारानकूलकतिमानित्यन्वयबोधः । एवं मूल्यग्रहणप्रयुक्तस्वस्वत्व ध्वंसफलकत्यागो विक्रयः । मूल्यदानप्रयुक्तस्वत्वोत्पादकस्वीकारः क्रयः । दत्तद्रव्यस्य स्वस्वत्वजनकस्वीकारः परिग्रहः । तथा च गां विक्रीणाति गां क्रीणाति गां प्रतिगृह्णातीत्यादौ गोवृत्तिमूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसफलकत्यागानकुलकतिमान्, गोवृत्तिमूल्यदानप्रयुक्तस्वस्वत्वानुकूलस्वीकारानुकूलकृतिमानिति क्रमेणान्वयधीरिति संप्रदायः । इदमत्राभिधेयं । दानस्य परस्वत्वजनकत्वे तत एव विक्रयवारणे मूल्यग्रहणं विनेति व्यर्थम् । अथ प्रतिग्रह एव स्वीकाराविशेषतया स्वत्वहेतुः । अस्वामिके स्वीकारस्य स्वत्वहेतुत्वाकल्पनात् । अत एव याजनाध्यापनप्रतिग्रहैब्राह्मणो धनमर्जयेत्' इत्यादिकं साधु संगच्छते । अन्यथा प्रतिग्रहवैफल्यापत्तेः । दानं तु स्वस्वत्वध्वंसमात्र जनयत्परस्वत्वप्रयोजकमिति मतं। तथापि तद्वैयर्थ्य, तदुपादानेऽप्युपेक्षायामतिव्याप्तः । तस्या अपि स्वस्वत्वध्वंसद्वारा परस्वत्वप्रयोजकत्वात् । तद्वारणाय वैजात्योपादानस्यावश्यकत्वात् । वस्तुतो दूरस्थपात्रमुद्दिश्य त्यक्तद्रव्यस्य प्रतिग्रहात्यागस्वामिकस्यानुकूलोदेश्येन पुरुषेण प्रतिग्रहात्स्वत्वात्स्वत्वं स्यादिति । अन्योदेश्यकत्वादेः प्रतिबंधकत्वे तु गौरवं । न च तादृशत्यागो दानाभास एव । ससंप्रदानकोहि त्यागो दानं संप्रदानं च ददस्वेत्यनुमितिप्रकाशनद्वारा दानक्रियाहेतुत्वेन । न च असन्निहि
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy