SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १२ कारकवादार्थः । कारात् । विभागाद्यवच्छिन्न स्पन्दशाब्दत्वं च विभागादिस्पन्दोभयवैशिष्टयावगाहिशाब्दत्वम् । तेन चैत्रेण ग्रामस्त्यज्यते इत्यादिवाक्यजन्य स्पन्दविशेषणकविभागादिविशेष्यकशब्दत्वसंग्रहः । इत्थं च परसमवेततद्धात्वर्थान्वितफलविशेषशालित्वं तत्तद्धात्वर्थकर्मत्वं । तेन त्यजादेर्नोत्तरदेशादौ कर्मत्वमिति । तन्न । विभागाद्यवच्छिन्नस्पन्दशाब्दत्वस्य जन्यतावच्छेदकत्वे तादृशस्पन्दे शक्तेर्दुर्वारत्वात् । परेपामितरान्विते शक्तिग्रह इतरांशवद्विभागावंशस्य त्यागो न युक्तः । त्यागगमनयोरेकार्थतावारणाय तत्फलविशिष्टे रुपन्दे शक्तिसिद्धे विनापि तल्लक्षणानुसंधानं तथा प्रतीतेरिति दिक् ॥ ददातेर्मूल्यग्रहणं विना स्वस्वत्वध्वंस परस्वत्वः जनकत्यागः यजतेर्देवतोद्देश्य कस्वस्वत्वध्वंसफल कत्यागजुहोतेस्तादृशाग्निप्रक्षेपश्चार्थः । अत एव ऋत्विजां तादृशत्यागाभावेपि होतृत्वम् । अग्निप्रक्षेपश्च अग्निसंयोग।नुकूलक्रियानुकूलघुतादिवृत्तिनोदनादिव्यापारः । न चैवमग्नौ जुहोतीत्यादौ सप्तम्यर्थस्यामिसंयोगेऽन्वये निराकांक्षतेति वा - च्यम् । अत्र संयोगानुकूलक्रियानुकूलव्यापारस्यैव धात्वर्थात् । न च तथाप्यः कर्मत्वापत्तिः । संयोगस्य धात्वर्थानवच्छेदकतया तद्वतोऽग्नेः कर्मत्वाभावात् । क्रियाया एव धात्वर्थतावच्छेदकतया तच्छालिनो घृतस्यैव कर्मत्वात् । द्वितीयार्थश्व वृत्तित्वं तच्च धात्वर्थतावच्छेदकेऽन्वेति । इत्थं च विप्राय गां ददाति, विष्णुं यजते, घृतं जुहोतीत्यादौ मूल्यग्रहणं विना विप्रोद्देश्यक गोवृत्तिस्वस्वत्वध्वंसपरस्वत्वफलकत्यागानुकूलकृतिमानित्यन्वयबोधः । विष्णोरुद्देश्यत्वसंबंधेन स्वस्वत्वध्वंसफलवत्त्वात्कर्मत्वम् । विष्णू
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy