________________
वैयाकरणभूषणसारे |
इत्यादि प्रपञ्चितं भूषणे । सप्तम्या अप्याश्रयोऽर्थः । “ सप्तम्यधिकरणेच " इत्यधिकरणे सप्तमी । तच्च " आधारोऽधिकरणमि" तिसूत्रादाधारः । तच्चाश्रयत्वम् । तत्राश्रयांशः शक्यः तत्वमवच्छेदकम् । न चाश्रयत्वमात्रेण कर्म्मकर्तृकरणानामाधारसंज्ञा स्यात् । स्यादेव यदि ताभिरस्या न बाधः स्यात् । " कारके " इत्यधिकृत्य विहितसप्तम्याः क्रियाश्रयइत्येवं यद्यपि तात्पर्य तथाप्यत्र कर्तृकर्म्मद्वारा तदाश्रयत्वमस्त्येव स्थाल्यादेर्भूतलकटादेवोत स्थाल्यां पचति भूतले वसति कटे शेते इत्याद्यपपद्यते । उक्तञ्च वाक्यपदीये ।
४४
कर्तृकर्म्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्व्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् । एतच्च त्रिविधम् । औपश्लेषिकं वैषयिकमभिव्यापकञ्च । कटे शेते, गुरौ वसति, मोक्षे इच्छास्ति । तिलेषु तैलमिति । एतच्च "संहितायामिति " सूत्रे भाष्ये स्पष्टम् ।
1
अवधिः पञ्चम्यर्थः । अपादाने पञ्चमी । तच्च “ ध्रुवमपायेsपादान " मिति सूत्रात् (अपायः) विश्लेषजनकक्रिया तत्रावधिभूतमपादानमित्यर्थकादवधिभूतमिति भावः । उक्तञ्च वाक्य
पदीये ।
अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदावेशात्तदपादानमुच्यते ।
पततोध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ।