SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सुवर्थनिर्णयः। ४५ उभावष्य ध्रुवों मेषौ यद्यप्युभयकमजे । विभागे प्रविभके तु क्रिये तत्र व्यवस्थिते । मेपान्तरक्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वश्च पृथक् पृथक् इति । अस्यार्थः (अपाये) विश्लेषहेतुक्रियायाम् (उदासीनम्) अनाश्रयः । (अतदावेशात्) तक्रियानाश्रयत्वात् । एवञ्च विश्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयत्वं फलितम् । वृक्षात्पर्ण पततीत्यत्र पर्णस्य तद्वारणाय सत्यन्तम् । धावतोऽश्वात्पततीत्यत्राश्वस्य क्रियाश्रयत्वाद्विश्लेषहत्विति । कुड्यात्पततोऽश्वात्पततीत्यत्रावस्य विश्लेषजनकक्रियाश्रयत्वेऽपि तन्न विरुद्धमित्याह यस्मादश्वादिति । तद्विश्लेषहेतुक्रियानाश्रयत्वे सताति विशेषणीयमिति भावः । एवमश्वनिष्ठक्रियानाश्रयत्वात्कुड्यादेराप ध्रवत्वमित्याह तस्यापीति। उभयकर्मजविभागस्थले विभागस्यैक्यात्तविश्लेषजनकक्रियानाश्रयत्वाभावात्परस्परान्मेषावपसरतइति न स्यादित्याशङ्कय समाधत्ते उभावपीति । मेषान्तरेति । यथा निश्चलमेषादपसरहितीयमेषस्थले निश्चलमेषस्यापरमेषक्रियामादाय ध्रुवत्वम् तथात्रापि विभागैक्येऽपि क्रियाभेदादेकक्रियामादाय परस्य ध्रुवत्वमिति । तथा च विश्लेषाश्रयत्वे सति तजनकतक्रियानाश्रयत्वं ततक्रियायामपादानत्वं वाच्यम् । क्रिया चात्र धात्वर्थो नतु स्पन्दः । तेन वृक्षकर्मजविभागवति वस्त्रे वृक्षावस्त्रं पततीति सङ्गच्छते । वस्तुतो नैतावत्पश्चम्या वाच्यम् । किन्तु अवधेलक्षणमात्रं द्वितीयार्थोक्त
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy