________________
७४
वैयाकरणभूषणसारे। हलीति" ज्ञापकात्सर्वनामसंज्ञा नानुपपना । असः शिव इत्यत्र सुलोपवारणायानञ् समासइति हि विशेषणम् । नच तत्र तच्छब्दस्य सर्वनामतास्ति गौणत्वात् । अकोरित्यकज्व्यावृत्या सर्वनान्नोरेव तत्र ग्रहणलाभात्तथाचानञ् समासइति ज्ञापकं सुवचम् ।। अनेकमन्यपदार्थे इत्यादावेकवचन विशेष्यानुरोधात् । “ मुबामन्त्रिते पराङ्गवत्वरे" इत्यतोऽनुवर्तमानमुग्रहणात् विशेष्यमेकवचनान्तमेव । किश्चानेकशब्दात द्विवचनोपादाने बहूनां, बहुवचनोपादाने द्वयोःबहुव्रीहिर्न सिध्येदित्युभयसंग्रहायैकवचनं जात्यभिप्रायमौत्सर्गिकंवा सेव्यतेऽनेकयेत्यत्रापि योषयेति.विशेष्यानुरोधात्मत्येकं सेवनान्वयबोधनाय चैकवचनं न तूत्तरपदार्थप्राधान्यप्रयुक्तम् । अतएव पतन्त्यनेके जलधेरिवोर्मयइत्यादिकमपि सूपपादम् । अत्वं भवसीत्यादौ युष्मदस्मद्भिने लक्षणा नञ् द्योतकः तथा च भिन्न युष्मदर्थेन तिङः सामानाधिकरण्यात्पुरुषव्यवस्था । त्वद्भिन्नाभिन्नायिका भवनक्रियेति शाब्दबोधः । एवं न त्वं पचसि इत्यत्र त्वदभिन्नाश्रयकपाकानुकूलभावनाभावः। घटोनास्तीत्यत्र घटाभिन्नाश्रयकास्तित्वाभाव इति रीत्या बोधः असमस्तनत्रः क्रियायामेवान्वयात् । सचाभावोऽत्यन्ताभावत्वान्यो. न्याभावत्वादिरूपेण शक्यः तत्तद्रूपेण बोधादित्यायन्यत्र विस्तरः॥ ४०॥
इति वैयाकरणभूषणसारे नअर्थनिर्णयः ।