SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ नअर्थनिर्णयः। तदर्थोनअर्थः अर्थपदं द्योत्यवाच्यत्वपक्षयोस्साधारण्येन कीर्तनाय भाष्यस्योत तथा च नञ् सूत्रे महाभाष्यम् निवृत्तपदार्थकइति निवृत्तं पदार्थोयस्य नपुंसके भावे क्त इति क्तः अभावार्थकइत्यर्थः। यत्तु निवृत्तः पदार्थोयस्मिन्नित्यर्थः सादृश्यादिनाध्यारोपितब्राह्मण्याः क्षत्रियादयोऽर्था यस्येत्यर्थइति कैयटः तन्न आरोपितब्राह्मण्यस्य क्षत्रियादेरनब्वाच्यत्वात् । अन्यथा सादृश्यादेरपि वाच्यतापत्तेः । यत्तु तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। ' अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकीर्तिता इति । पठित्वा अब्राह्मणः अपापम् अनश्वः अनुदरा कन्या अ. पशवोवा अन्ये गोऽश्वेभ्यः अधर्म इत्युदाहरन्ति तत्त्वार्थकार्थमभिप्रेत्यति स्पष्टमन्यत्र । बिशेषणमिति प्रतियोगिनीति शेषः । तथाच सर्वपदे सर्वनामसंज्ञा । “ अनेकमन्यपदार्थे " "सेव्यतेऽनेकयासन्नतापाङ्गया" इत्यादावेकशब्दार्थप्राधान्यादेकवचननियमः । अब्राह्मण इत्यादावुत्तरपदार्थप्राधान्यात्तत्पुरुषम् । अत्वं भवसि अनहं भवामीत्यादौ पुरुषवचनादिव्यवस्था चोपपद्यते अन्यथा त्वदभावोमदभावइतिवदभावांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाधिकरण्यस्य तिवसत्त्वात्पुरुषव्यवस्था न स्यात् । अस्मन्मते च भेदप्रतियोगित्वादभिनायिका भवनक्रियेत्यन्वयात्सामानाधिकरण्यं नानुपपन्नमिति भावः । विशेष्योवेति प्रतियोगिनीति शेषः । अयं भावः गौणत्वेऽपि नसमासे "एतत्तदोः सुलोपोऽकोरनञ् समासे
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy