SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ७२ वैयाकरणभूषणसारे । शक्तिग्रहः घटपदमत्र योग्यमेतत्सम्बन्धीत व्यवहारात्सा ग्राह्ये-' त्यर्थः ॥ ३८ ॥ इति वैयाकरणभूषणसारे शक्तिनिर्णयः । नअर्थमाह । नसमासे चापरस्य प्राधान्यात्सर्वनामता। आरोपितत्वं नद्योत्यं नासोऽप्यतिसर्ववत्। नसमासे अपरस्य उत्तरपदार्थस्य प्राधान्यात्सर्वनामता सिध्यतीति शेषः । अतएव आरोपितत्वमेव नद्योत्यमित्यभ्युपेयमिति शेषः। अयं भावः असर्वइत्यादावारापितः सर्वइत्यर्थे सर्वशब्दस्य प्राधान्याबाधात्सर्वनामता सिद्ध्यति । अन्यथा अतिसर्चइत्यत्रेव सा न स्यात् घटोनास्तीत्यादावभावविषयकबोधे तस्य विशेष्यतायाएव दर्शनात् अस्मद्रीत्या च स आर्थोबोधो मानसः तथाचासर्वस्मै इत्याद्यसिद्धिप्रसङ्ग्रहति अत्र चारोपितत्वमारोपविषयत्वम् आरोपमात्रमों विषयत्वं संसर्गइति निष्कर्षः द्योत्यत्वोक्तिनिपातानां द्योतकत्वमभिप्रेत्य ॥ ३९॥ ___ घटोनास्ति अब्राह्मण इत्यादावारोपबोधस्य सानुभवविरुद्धत्वात्पक्षान्तरमाह ॥ अभावोवा तदर्थोऽस्तु भाष्यस्य हि तदाशयात् विशेषणं विशेष्योवा न्यायतस्त्ववधार्यताम्॥
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy