________________
धात्वर्थनिर्णयः ।
1
अस्ति प्रवर्त्तनारूपमनु चतुर्ष्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ।। न्यायव्युत्पादनार्थ वा प्रपञ्चार्थमथापि वा । विध्यादीनामुपादानं चतुर्णामादितः कृतमिति ॥
A प्रवर्त्तनात्वञ्च प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वं तच्चेष्टसाधनत्वस्यास्तीति तदेव*विध्यर्थः यद्यप्येतत् कृतिसाध्यत्वस्यापि तद्भानस्यापि प्रवर्त्तकत्वात्तथापि यागादौ सर्व्वत्र तल्लोकतएव गम्यतइत्यन्यलभ्यत्वान्नतच्छक्यम् वलवदनिष्टाननुबन्धित्वज्ञानञ्च न हेतुः द्वेषाभावेनान्यथासिद्धत्वात् आस्तिककामुकस्य नरकसा
* तदेवेति । इष्टसाधनत्वमेवेत्यर्थः ॥ एवकारेण कृतिसाध्यत्वाऽऽदिव्यवच्छेदः ॥ इष्टत्वं च समभिव्याहृतपदोपस्थापितकामनाविषयत्वं ॥ स्वर्गकामो यजेतेत्यत्र स्वर्गकामपदोपस्थापित कामनाविषयत्वस्य स्वर्गे सत्त्वादिष्टत्वं तस्याऽक्षतम् ॥ तेनैव च स्वर्गादीष्ठानामनु गमः ॥ यदि च सामान्यत इष्टसाधनत्वज्ञाने प्रवृत्त्यनुदयात्तदूरूपेण स्वर्गत्वाऽऽदिना स्वर्गसाधनताज्ञानं तथा वाच्यम् । तथा च तेन रूपे णेष्टसाधनत्वस्य श्रुतेरनवगमाद्विधिवाक्यात्कथं प्रवर्तकज्ञाननिर्वाह इति विभाव्यते तष्टताऽवच्छेदकत्वेन स्वर्गत्वादीननुगमय्य तदयच्छिन्नसाधनत्वे विधेः शक्तिरुपगन्तव्या ॥ एवं च न विधेर्नानार्थत्वमपि तदादिवत् ॥ इष्टताऽवच्छेदकत्वस्योपलक्षणत्वोपगमाश्च न स्वर्ग त्वादीनां तद्रूपेण भानाऽऽपत्तिः ॥ अथ स्वर्गकामो ज्योतिष्टोमेन यजेतेत्यत्र श्रुत्या स्वर्गसाधनत्वं ज्योतिष्टोमे बोधनीयम् ॥ तच्च न सम्भवति वाजपेयादपि स्वर्गेौत्पत्तेव्यभिचारात् ॥ वैजात्यस्य चोत्तरकालकल्प्यत्वेन पूर्वमनुपस्थितत्वादिति चेन्न ॥ घटं द्रव्यत्वेनैव जानातीत्यादौ घटत्वोपलक्षितव्यक्तितद्विशेष्यकद्रव्यत्वप्रकारकज्ञानाऽवगम
वत्स्वर्गत्वाऽऽश्रययत्किञ्चिद्व्यक्तिसमानाधिकरणाऽभावा ऽप्रतियोगित्वमेव श्रुत्या यागेऽवगम्यतेऽथवा यागाऽनुत्तरकालाऽवृत्तित्वमेवे स्वर्गत्व सामानाधिकरण्येनेति न कश्चिद्दोषः ॥