SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ . शक्तिनिणेयः। यतया शाब्दबोधं प्राति तदशविषयकवृत्तिजन्योपस्थितिहेतुरिति वाच्यम् एवञ्च लक्षणाया अपि शक्तिज्ञानत्वेन हेतुत्वमसम्भवीति । एतेन शक्तिप्रयोज्यैवोपस्थितिहेतु रिति न लक्षणाज्ञाने कार्यकारणभावान्तरं ममापीति परास्तम् प्रयोज्यत्वस्यानतिमसक्तस्य दुर्वचत्वाच्चेत्यादि विस्तरेण प्रपश्चितं भूषणे ।। ३६ ॥ नन्वेवं भाषादितोबोधदर्शनाद्वोधकतारूपा शक्तिस्तत्रापि स्यात् तथा च साधुतापि स्यात् । शक्तित्वस्यैव साधुताया व्याकरणाधिकरणे प्रतिपादनादित्याशङ्का द्विधा समाधत्ते । असाधुरनुमानेन वाचकः कैश्चिदिष्यते । वाचकत्वाविशेषे वा नियमः पुण्यपापयोः।३७ (असाधुः अनुमानेन)साधुशब्दमनुमाय वाचकः बोधकः कैश्चिदिष्यते । तथा च लिपिवत्तेषां साधुस्मरणएवोपयोगो नतु साक्षात्तद्वाचकत्वमतोन साधुत्वमिति भावः। उक्तं हि वाक्यपदीये। ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः।। तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशकाः । न शिष्टैरनुगम्यन्ते पर्याया इव साधवः । न यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः। । अम्बाम्बति यथा बालः शिक्षमाणः प्रभाषते । अव्यक्तं तद्विदां तेन व्यक्त भवति निर्णयः । एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते इति
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy