SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणसारे । नन्वपभ्रंशानां साक्षादवाचकत्वे किं मानम् शक्तिकल्पकव्यवहारादेस्तुल्यत्वादिति चेत्तत्तदेशभेदभिन्नेषु तेषु तेषु शक्तिकल्पने गौरवात् । नच पर्यायतुल्यता शङ्कया तेषां सर्व्वदेशेष्वेकत्वाद्विनिगमनाविरहेण सर्व्वत्र शक्तिल्पना न हि अपभ्रंशे तथा, अन्यथा भाषाणां पर्यायतया गणनापत्तेः । एवञ्च शक्तत्वमेवास्तु साधुत्वमिति नैयायिकमीमांसकादिनां मतेनैव द्रष्टव्यम् । इदानीं स्वमतमाह | वाचकत्वाविशेषेवेति । अयं भावः । अपभ्रंशानामशक्तत्वे ततोबोधएव न स्यात् । नच साधुस्मरणात्ततो बोधः तानविदुषां पामराणामपि बोधात् तेषां साधोरबोधाच्च । नच शक्तिभ्रमात्तेभ्योबोधः बोधकत्वस्याबाधेन तद्ग्रहस्याभ्रमत्वात् । ईश्वरेच्छा शक्तिरिति मतेऽपि सन्मात्रविषयिण्यास्तस्या बाधाभावात् । शक्तेः पदपदार्थविशेषघटिताया भ्रमासम्भवाच्चेति । उक्तञ्च वाक्यपदीये । ७० पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येन तेषां साधुरवाचकः । देवी वाग्व्यवकीर्णेयमशक्तै रभिधातृभिः । अनित्यदर्शिनान्त्वास्मिन्वादे बुद्धिविपर्ययइति । (अवाचकः) अबोधकः (बुद्धिविपर्ययः) एत एव वाचका नान्ये इति विपर्यय इत्यर्थः । किञ्च विनिगमनाविरहाद्भाषणयामपि शक्तिः । नच तासां नानात्वं दोषः । संस्कृतवन्महाराष्ट्रभाषायाः सर्व्वत्रैकत्वेन प्रत्येकं विनिगमनाविरहतादवस्थ्यात् । किञ्चानुपूर्वी पदेऽवच्छेदिका सा च पर्यायेष्विव भाषाया
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy