________________
६८ वैयाकरणभूषणसारे । च्छेदकं तत्तदुपस्थितित्वश्च कारणतावच्छेदकम् अनन्तकार्यकारणभावप्रसङ्गात् । किञ्च पदार्थोपस्थितिं प्रत्यपि शक्तिज्ञानत्वेन लक्षणाज्ञानत्वेन च हेतुतेतिव्यभिचारो गौरवश्च प्राग्वदेव द्रष्टव्यम्। नचेदं पदमेतदर्थबोधकामिति शक्तिज्ञानकार्यकारणभावकल्पनेऽपि तत्तदर्थभेदेनानेककार्यकारणभावकल्पने गौरवम् तवापि समानम् परस्परव्यभिचारवारणायाव्यवहितोत्तरत्वघटितत्वे च सुतरामिति वाच्यम्, शक्तिभ्रमानुरोधेन तत्तत्पदतत्तदथेभेदेन कार्यकारणभावानन्त्यस्य तवापि साम्यात् । लक्षणाकार्यकारणभावकल्पनागौरवं परं तवातिरिच्यते । अथ वृत्तिजन्योपस्थितित्वेनैव शाब्दबोधहेतुता बृत्तिज्ञानत्वेन च पदार्थोपस्थितिकारणतेत्वेवं मया वाच्यमिति चेन्न शक्तिलक्षणान्यतरत्वस्य शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलपदपदार्थसम्बन्धत्वस्य वा वृत्तित्वस्य कारणतावच्छेदकत्वात् शक्तित्वमपेक्ष्य गौरवात् शाब्दबोधहेतुतावच्छेकपदार्थोपस्थिातहेतुवृत्तेरज्ञाने तद्घटितकार्यकारणभावग्रहस्यासम्भवात् । अथ ममापि शक्तिज्ञानत्वेनैव हेतुता शक्यसम्बन्धरूपल क्षणायां शक्तेरपि प्रवेशादिति चेन्न । शक्तिज्ञानपदार्थोपस्थित्यो कार्यकारणभावे समानविषयत्वस्यावश्यकत्वात्-अन्यथा गङ्गातीरयोः सम्बन्धाग्रहवतो गङ्गापदशक्तिं जानतोपि गङ्गायां घोष इति वाक्यात्तीरबोधप्रसङ्गः शक्तिज्ञानस्य हेतोः सत्त्वात् । अपिच घटमानयेति वाक्यं हस्तिनश्च स्मरतो घटपदादिभ्यो घटादेः गजाद्धस्तिपकस्य च समूहालम्बनस्मरणवतो घटानयनवद्धस्तिपकस्यापि शाब्दबोधापत्तिः समूहालम्बनरूपायां पदार्थोपस्थितौ पदजन्यत्वसत्त्वात् । तथा च विष