SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १५ धात्वर्थनिर्णयः वक्ष्यमाणास्मद्रीत्या चान्वयासम्भवइति प्रकृतिप्रत्ययार्थयोरन्वयनियमस्यैवाभावे क ? प्राधान्यवोधक उक्तकार्यकारणभावः । नच सम्बन्धमात्रमुक्तश्च श्रुत्या धात्वर्थभावयोः। तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यतइति । भट्टपादोक्तरीत्या सम्बन्धसामान्येन कारकाणामन्वयः शंक्यः, योग्यताविरहात् अन्वयप्रयोजकरूपवत्त्वस्य तत्त्वात् । क्रियायमित्वमेव हि कारकान्वयितावच्छेदकमिति वक्ष्यते । तदेतदाविष्कर्तुं विवरणेन धात्वर्थक्तवत्वर्थयोः कर्मत्वकर्तृत्वे दर्शयति कृतवान् पाकमिति । वस्तुतः प्रत्ययार्थः प्रधानमित्यस्य यः प्रधानं स प्रत्ययार्थ एवेति वा, यः प्रत्ययार्थः स प्रधानमवोत वा नार्थः अजा अश्वा छागीत्यत्र स्त्रीप्रत्ययार्थे स्त्रीत्वस्यैव प्राधान्यापत्तेः छाग्यादेरनापत्तश्च । किन्तूत्सर्गोऽयम् विशेष्यत्वादिना बोधस्तु तथाव्युत्पत्यनुरोधात् । अतएव नैयायिकानांप्रथमान्तविशेष्यकएव बोधः । लक्षणायामालंकारिकाणां शक्यतावच्छेदकप्रकारकएव बोधो न नैयायिकादीनाम् । घटः कर्मत्वमानयनंकृतिीरत्यादौ विपर्ययेणापि व्युत्पन्नानां नैयायिकनव्यादीनां बोधो न तव्युत्पत्तिरहितानाम् अन्येषां तनिराकांक्षमेवेत्यादिकं संगच्छते । अतएव "प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्" इत्याह भगवान् पाणिनिः।प्रधानं प्रत्ययार्थ इति वचनं नेल्लनुप॑ न कार्यम् अर्थस्य अर्थावबोधस्यान्यप्रमाणत्वात् व्युत्पत्यनुसारित्वादितिहि तदर्थः । एवं सत्यापि नियामकापेक्षणे "भाव प्रधानमाख्यात" मिति वचन मेव गृह्यतामिति सुधीभिरूह्यम् । “तदागमे हीति" न्यायो विवरण.
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy