SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ६२ वैयाकरणभूषणसारे । पदे एव लक्षणास्वीकारात् पूर्वपदस्य यौगिकत्वेन तल्लक्षणाया धातुमत्यवतदर्थज्ञानसातया विलम्वितत्वात् प्रत्ययानां समिहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्त्यनुरोधाच घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना विशिष्टे कल्प्यते विशिष्टस्यैर सङ्केतितत्वात् बोधकत्वस्यापि प्रत्येकं वर्णेष्वसत्वात् । प्रकृते चात्यन्तसन्निधानेन प्रत्ययार्थान्वयसौलभ्यायोत्तरपदे एव सा कल्प्यत इति विशेषः स्वीकृतश्च घटादिपदे पाप चरमवर्णस्यैव वाचकत्वं मीमांसकम्मन्यरित्याहुः अोच्यते समासे शक्त्यस्वीकारे तस्य प्रातिपदिकसंज्ञादिकं न स्यात् अर्थवत्त्वाभावात् " अर्थवदधातुरप्रत्ययः प्रातिपदिकमि" त्यस्याऽप्रवृत्तेः न च "कृत्तद्धितसमासाश्चे" त्यत्र समासग्रहणात् सा, तस्य नियमार्थताया भाष्यसिद्धाया वैयाकरणभूषणे स्पष्टं प्रतिपादितत्वात् समासवाक्ये शक्त्यभावेन शक्त्यसम्बन्धरूपलक्षणाया अप्यसम्भवेन लाक्षणिकार्थवत्त्वस्याप्यसंभवात् । __ अथ तिप्तस्झि इत्यारभ्य ङ्योस्सुबिति तिप्पत्याहारोभाष्यसिद्धः तमादायाऽतिपातिपदिकमित्येव सूत्र्यताम् कृतमर्थवदादिसूत्रद्वयन समासग्रहणश्च नियमार्थमस्तु तथा च सुप्तिङन्तभिन्न प्रातिपदिक मित्यर्थात्समासस्यापि सा स्यादिति चेत्तथापि प्रत्येकं वर्णेषु संशावारणायाऽर्थवत्वाऽऽवश्यकत्वेन समासाऽव्याप्तितादवस्थ्यमेव तथा च प्रातिपदिकसंज्ञारूपं काठमेवार्थवस्वमनुमापयति धूम ईव वह्निम् किश्चैवं चिनगुमानयेत्यादौकर्मत्वाचनन्वयाऽऽपत्तिः प्रत्ययानां प्रकृत्यान्वित
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy