SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ समासार्थनिर्णयः। ६१ बहुव्रीयसम्भवापत्तेः "अनेकमन्यपदार्थ" इत्यनेकसुबन्ताना. मन्यपदार्थप्रतिपादकत्वेन तद्विधानात् । किन एवंसति घटादिपदेष्वपि चरमवर्ण एव वाचकताकल्पना स्यात् पूर्वपूर्ववर्णानां तात्पर्यग्राहकत्वेनोपयोगसम्भवात् । एवं सति चरमवर्णमात्रश्रवणेऽर्थबोधापत्तिरिति चेदत्राप्युदकपदमात्रश्रवणादर्थप्रत्ययापत्तिस्तुल्येत्यन्यत्र विस्तरः। एवञ्च अषष्ठयर्थबहुब्रीहौ ( व्युत्पत्यन्तरकल्पना ) उक्तयुक्तः अगत्या शक्त्यन्तरकल्पनेत्यर्थः ( कृप्तत्यागः) इत्यस्य क्लप्तशक्त्योपपत्तिरिति व्युत्पत्तित्यागश्च (तवास्ति) (तत्किम् ) सर्वत्र समासे शक्तिं न कल्पयेरिति वाक्यार्थः । यत्तुव्यपेक्षावादिना नैयायिकमीमांसकादयः न समासे शक्तिः राजपुरुषइत्यादौ राजपदादेः सम्बन्धिलक्षणयैव राजसम्बन्ध्यभिन्नः पुरुषइति बोधोपपत्तेः । अतएव राज्ञः पदार्थकदेशतया न तत्र शोभनस्येत्यादिविशेषणान्वयः। नवा घनश्यामोनिष्कौशाम्बिर्गोरथइत्यादौइवादिप्रयोगापत्तिः उक्तार्थतया इवक्रान्तादिपदप्रयोगासम्भवात् न वा"विभाषति"सूत्रावश्यकत्वम् लक्षणया राजसम्बन्ध्यभिन्नः पुरुषइति बुबोधयिषायां समासस्य, राजसम्बन्धवानिति बुबोधयिणायां विग्रहस्येत्यादिप्रयोगनियमसम्भवात् नापि पङ्कजपदप्रतिवन्दी शक्तिसाधिका तत्रावयवशक्तिमजानतोपि बोधात् नच शक्त्यग्रहे लक्षणयातेभ्योविशिष्टार्थप्रत्ययःसम्भवतिअतएवराजा दिपदशक्त्यग्रहे राजपुरुषश्चित्रगुरित्यादौ न बोधः नच चित्रगुरित्यादौ लक्षणासम्भवेऽप्यषष्ठपर्धवहुव्रीही लक्षणाया असम्भवे बहुव्युत्पत्तिभञ्जनापतेरिति वाच्यम् प्राप्तोदकइत्यादावुदक
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy