SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ६० वैयाकरणभूषणसारे । वधिः बहुपाककर्त्रधिकरणमिति बोधाभ्युपगमात् अतिरिक्तशतिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्तृकप्राप्तिकर्मत्वावशिष्टे प्राप्तोदकइत्यादिसमुदायशक्त्यैव निब्र्वाहइति भावः॥ ३२ ॥ साधकान्तरमाह । अषष्ठ्यर्थबहुव्रीहौ व्युत्पत्त्यन्तरकल्पना । क्लृप्तत्यागश्चास्ति तव तत्किं शक्तिं न कल्पयेः ३३ अयं भावः । चित्रगुरित्यादिषु चित्रगवीनां स्वाम्यादिप्र सीतिर्न विना शक्तिमुपपद्यते । नच तत्र लक्षणा साहि न चित्रपदे चित्रस्वामी गौरिति वाघापत्तेः । नापि गोपदे गोस्वा मी चित्र इत्यन्वयबोधापत्तेः । चित्रादिमात्रस्य लक्ष्यैकदेशत्वेन तत्र गवादेरन्वयायोगात् । नच चित्राभिन्ना गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं तादृशगोस्वामी गोपदेन लक्ष्यते इति वाच्यम् । गोपदस्य चित्रपदस्य वा विनिगमनाविरहेण लक्षकत्वासम्भवात् । नच गोपदे साक्षात् सम्बन्धएव विनिगमकइति वाच्यम् । एवमपि प्राप्तोदकः कृतविश्व इत्याद्यषष्ठयर्थबहु विनिगमकाप्राप्तेः । यौगिकानां कत्राद्यर्थकतया साक्षात्सम्बन्धाविशेषात् । नच पदद्रये लक्षणेति नैयायिकोक्तं युक्तम् बोधावृत्तिप्रसङ्गात् । नच परस्परं तात्पर्य्यग्राहकत्वादेकस्यैवैकदा लक्षणा न द्वयोरिति न बोधावृत्ति रिति वाच्यम् । एवमपि विनिगमनाविरहतादवस्थ्यन लक्षणाया असम्भवात् । नच चरमपदे एव सा प्रत्ययार्थान्वयानुरोधात् प्रत्ययानां सन्निहिनपदार्थगत स्वार्थबोधकत्वन्युत्पतेरिति वाच्यम् । एवं हि
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy