________________
समासार्थनिर्णयः ।
स्वार्थबोधजनकत्वव्युत्पत्तेः विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृतित्वात् यत्तु समहितपदार्थगत स्वार्थबोधकत्वव्युत्पत्तिरेव कल्प्यत इति तन्न उपकुभ्भं अर्द्धपिप्पलीत्यादौ पूर्वपदार्थे विभक्त्यर्थान्वयेन व्यभिचारात् न च तत्रापि समिधानमेव आनुशासनिकसन्निधेर्विवक्षितत्वात् तथा च यत्पदोतरं यानुशिष्टा सा तदर्थगतं स्वार्थ बोधयति समासे च समस्यमानपदोत्तरमेवानुशासनमिति वाच्यम् । अर्थवत्सूत्रेण वि - शिष्टस्यैव विभक्त्यनुशासनात् । अथ प्रकृतित्वाश्रये विभक्त्यन्वयइत्येव कल्प्यतइति चेत्तर्हि पङ्कजमानय दण्डिनं पश्य शूलिनं पूजयेत्यादौ पङ्कजदण्डशूलेष्वानयनदर्शनपूजनादेरन्वयप्रसङ्गात् अघटमानयेत्यत्र घटेप्यानयनान्वयापत्तेश्व । नच दण्डादीनां विशेषणतया न तत्रानयनाद्यन्वयः । पाकानीलः धर्म्मासुखी इत्यादौ पाकधर्मादिहेतुताया रूपसुखादावनन्वयप्रसङ्गात् यच्च प्रकृत्यर्थत्वं तज्जन्यज्ञानविषयत्वमात्रं तच्चात्राविरुद्धमिति तन्न घटं पश्येत्यत्र घटपदात्समवायेनोपस्थिताकाशवारणाय वृत्त्या प्रकृत्यर्थत्वस्यावश्यकत्वात् । अथ प्रत्ययप्राग्वर्त्तिपदज न्योपस्थितिविशेऽयत्वं प्रकृत्यर्थत्वमिति चेन्न गामानयति कृष्णो दण्डेनेत्यत्र कृष्णे तृतीयार्थान्वयप्रसङ्गात् । अथ समस्यमानप दार्थबोधकत्वं समासोत्तरविभक्तेः कल्प्यतइति चेन्न अकृतकल्प नां कृप्त व्युत्पत्तित्यागञ्चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्त त्वादिति दिक् । अपि च समासे विशिष्टशक्त्यस्वीकारे राज पुरुषचित्रगुः नीलोत्पलमित्यादौ सर्व्वत्रानन्वयप्रसङ्गः । राज
६३