SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २५ धात्वर्थनिर्णयः। .. सम्बोधनान्तस्य क्रियायामन्वयः, त्वं ब्रूहि देवदत्तेत्यादौ निघातानुरोधात "समानवाक्ये निघातयुष्मदस्मदादेशा" इत्यनेन समानवाक्यएव तन्नियमात, उक्तं हि वाक्यपदीये । सम्बोधनपदं यच्च तत् क्रियायाविशेषणम् * । वजानि देवदत्तेति निघातोऽत्र तथासतीति । पचति भवति देवदत्तेत्यादौ तु सूत्रभाष्यादिरीत्यकवाक्यतासत्वात् स्यादेव निघातः । “तिङ्ङतिङ"इति सूत्रेऽपि तिङन्तानामप्येकवाक्यतास्वीकारात् । एकतिङ् वाक्यमिति वदतां वार्तिककाराणां मते परं न । वस्तुतः एकतिझवशेष्यकं वाक्यमिति तदभिप्रायस्य हेलाराजीयादौ वैयाकरणभूषणेऽस्माभिश्च प्रतिपादितत्वात्तन्मतेऽपि भवत्येवेत्यवधेयम् । ( कृत्वोऽर्थाः ) "क्रियाभ्यात्तिगणने कृत्वमुच्" इति क्रियायोगे तत्साधुत्वोक्तेः क्रियाया अभ्यात्तिः पुनः पुनः जन्म तस्मिन् द्योत्ये इति तदर्थात् । ( कारकम ) कारके इत्यधिकृत्य तेषां व्युत्पादनात् ।' कारकशब्दो हि क्रियापरः करोति कर्तृकांदिव्यपदेशानिति व्युत्पत्तेः । तथाचाग्रिमेष्वपादानादिसंज्ञाविधिषु क्रियार्थककारकशब्दानुवृत्त्या क्रियान्वयिनामेव संज्ञेति भाष्ये स्पष्टम् (प्रथमोव . * विशेषणमिति । स्वोदेश्यकप्रवर्तनाविषयत्वरूपपरम्परासम्बन्धेनेत्यर्थः । वजानीत्यस्य हि जानहीति शेषः । “सिद्धस्याऽभिमुखीभावमात्रं सम्बोधनं विदुःप्राप्तोऽभिमुख्यो हि जनः क्रियासुविनियुज्यते'' इति वदता प्रवर्तनाविषयक्रियायामेव तदन्वयबोधनात् । प्रवर्त्तनोहेश्यस्यैव तद्विषयक्रियोद्देश्यत्वादुद्देश्यविधेयभावस्य तयोः संसर्गमादया लाभादेकवाक्यतया निघात इति तदर्थः! शाब्दबोधस्तत्र सम्बोधनविषयदेवदत्तोद्देश्यकप्रवर्तनाविषयं मत्कर्तृकव्रजनकर्मकज्ञानमिति ।
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy