SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २६ वैयाकरणभूषणसारे तिः) "तेन तुल्यं क्रिया चेदतिः,, इति विहितः तत्र यत्तुल्यं सा क्रिया चेदित्युक्तत्वात् । (धातुसम्बन्धाधिकारे) "धातुसम्बन्धे प्रत्यया" इत्यधिकृत्य तेषां विधानात् । ( असमस्तनञ् ) समासायोग्यः प्रसज्यप्रतिषेधीयोनजित्यर्थः । उत्तरपदार्थान्वयेऽपि समासविकल्पेन पक्षे असमस्तत्वात् यथाश्रुतग्रहणायोगान ! न चासमस्तनाः क्रियान्वये मानाभावः न त्वं पचास न युवां पचथः चैत्रोन पचति घटोन जायते इत्यादौ क्रियाया एव निषेधप्रतीतेः । अतएव विद्यमानेऽपि घटे तथा प्रयोगः । तथा च घटोनास्तीत्यत्राप्यस्तित्वाभावएवबोध्यते । नहि घटो न जायते नास्तीत्यनयोर्धात्वर्थभेदमन्तरेणास्ति विशेषः। तथा च भूतले न घटइत्यत्राप्यस्तीत्यध्याहार्यम् । प्रकारतासम्बन्धेन नगर्थविशेष्यकबोधे धातुजन्यभावनोपस्थितेर्हेतुत्वस्य क्लुप्तत्वात् । शेष नबर्थनिर्णये वक्ष्यते ॥ १६॥ • तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् । साधुत्वमष्टकस्यास्य क्रिययैवावधार्य्यताम् १७॥ ___ “यस्य च भावेन भावलक्षणम्" इत्यत्र भावनार्थकभावशब्देन तद्योगे साधुत्वाख्यानलाभात् “षष्ठी चानादर" इति तदग्रिमसूत्रेऽपि चकाराद्भावेनेत्यप्यन्वेतीत्यर्थः ( साधुत्वमिति ) तत्स्वरूपन्तु वक्ष्यते (क्रिययैवोत) अयं भावः । भूवादिसूत्रादिषु ___ * ननु क्रिययैवाऽवधार्यतामितिमूलेन क्रियाऽन्वय एवोक्तानां साधुत्वं लभ्यते इति सत्यमेव तथापि भाष्ये क्रियापदस्य फलेऽपि प्रयोगात्साक्षात्परम्परया वा क्रियाफलाऽन्वयेनाऽपि तेषां साधुत्वोपपत्तौ नोक्तरीसिर्धातोापारवाचकत्वसाधिकेत्याशङ्कयाऽऽशयं प्रकाशयति । अयम्भावइति ।
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy