________________
॥श्रीः॥ अथ कारकवादार्थः।
नत्वा शम्भोः पदांभोज जयरामः समासतः ॥ करोति कारकव्याख्यामिह संख्यावतां मुदे ॥१॥
कारकाणि कर्तृकर्मकरणसम्प्रदानापादानाधिकरणानि षट् । कारकत्वं च नाम क्रियानिमित्तत्वं । चैत्रस्य तंडुलं पंचतीत्यादौ संबंधिनि चैत्रादावतिव्याप्तेः । अनुमतिप्रकाशनद्वारा संप्रदानादेरिव तंडुलादिसंपादनद्वारा संबंधिनोऽपि पाकादिक्रियानिमित्तत्वात् । किंतु क्रियान्वितविभक्त्यान्वितत्वं । अस्ति च कर्नादीनां क्रियान्विततिङ्सुब्बिभक्त्यर्थान्वयः । नतूदाहृते संबंधिनि षष्ठयर्थसंबंधस्य । तंडुलादिनामार्थान्विततया क्रियानन्वितत्वात् । चैत्रस्य पचतीत्यादावपि तंडुलादिपदाध्याहारेणैव बोधः । षष्ठयर्थसंबंधस्य तंडुलादिनामाथैरेव क्रियायाः कर्मत्वादिनैव साकांक्षत्वात्परस्पराकांक्षाविरहात् । ओदनस्य भोक्ता चैत्रस्य पाक इत्यादौ कर्तृत्वकर्मत्वार्थिका षष्ठी कारकविभक्तिरेव । “कर्तृकर्मणोः कृति " इत्यनेन तद्विधानात् । अत एव संबंधस्य न कारकत्वं, क्रियायोगाभावादिति
र क्रियानिष्ठजन्यतानिरूपितजनकताशालित्वं तत्. २ चैत्रनिरूपितस्वत्वशालितंडुलान्यासमवेततंडुलसमवेतधात्वर्थतावच्छेदकविक्लित्त्यनुकूलवर्त्तमानव्यापारानुकूलकृतिमानिति वाक्यार्थः.