SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ समासार्थनिर्णयः। ५५ पायोवादः भूतपूर्वः हम्भूः आयतस्तूः बागाविवेत्याद्यसङ्ग्रहात् तथा पूर्वपदार्थप्रधानोऽव्ययीभावः उत्तरपदार्थप्रधानस्तत्पुरुषः उभयपदार्थप्रधानोद्वन्द्रः अन्यपदार्थप्रधानो बहुव्रीहिरित्यादिलक्षणमापि प्रायिकम् उन्मत्तगङ्गं सूपप्रति अर्द्धपिप्पली द्वित्राः शशकुशपलाशमित्यादौ परस्परव्यभिचारात् तथाहिउन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः अन्यपदार्थप्राधान्याबहुव्रीहिलक्षणातिव्याप्तिश्च “अन्यपदार्थे च संशायामिति" समासात् सूपप्रनीत्यव्ययीभाव उत्तरपदार्थप्राधान्यात्तत्पुरुषलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च "सुपातिना मात्रार्थे " इति समासात् अपिप्पलीत तत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वादव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च । “अर्द्ध नपुंसकमिति" समासात् । एवं पूर्वकाय इत्यादौ द्रष्टव्यम् । द्वित्राइति बहुव्रीहाबुभयपदार्थप्राधान्याद् द्वन्द्वातिव्याप्तिः वहुव्रीह्यव्याप्तिश्च । शशकुशपलाशमित्यादिदन्छे समाहारान्यपदार्थप्राधान्याबहुव्रीह्यतिव्याप्ति ईन्द्राव्याप्तिश्च स्यादिति भावः । सिद्धान्ते त्वब्ययीभावाधिकारपठितत्वमव्ययीभावत्वामित्यादि द्रष्टव्यम् । असम्भकाचैषामि- । त्याह । भौतपूर्व्यादित्यादि । रेखागवयादि निष्ठलागृलादास्तवपश्वलक्षणस्ववदेतेषामपि न समासलक्षणत्वम् । बोधकता तु तदेव स्यादिति भावः ॥ २९ ॥ ___ ननु पूर्वपदार्थप्राधान्यादि समासे सुवचम् तथाहि "समर्थः पदविधिरित" सूत्रे भाष्यकारैरनेकधोक्तेष्वपि पक्षेषु
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy