SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ७६ वैयाकरणभूषणसारे । तथान्यत्र निपातेऽपि लकारः कर्म्मवाचकः । विशेषणाद्ययोगोऽपि प्रादिवच्चादिके समः ॥४२ 1 ( अन्यत्र ) साक्षात् क्रियते अलङ्कियते उरीक्रियते शिवइत्यादौ अत्रापि धातोस्तत्तदर्थे कर्म्मणि लकारसिद्ध्यर्थं तत्तदर्थवाचकत्वं वाच्यमित्युपसर्गवद्द्योतकत्वममीषामपीत्यर्थः । यद्यपि कृधातोः सकर्मकत्वमस्त्येव तथाप्येष्वर्थेषु सकर्मकता न स्यात् । अन्यथा वायुर्व्विकुरुते सैन्धवा विकुर्व्वत इत्यत्रापि स्यादिति भावः । अथोपासना साक्षात्कारादिः निपातोर्थोऽस्तु " साक्षात्प्रत्यक्ष तुल्ययोरि " ति कोषस्वरसात् तदनुकूलोन्यापारएव धात्वर्थोऽस्तु स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवत्वं सकर्मकत्वमपि सुवचमिति दृष्टान्तदाष्टान्तिका - वयुक्ताविति नेदं साधकमिति चेन्न । नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयासम्भवेननिपातधात्वर्थयोरन्वयासम्भवात् । अन्यथा तण्डुलः पचतीत्यत्रापि कर्म्मतया तण्डुलानां धात्वर्थेऽन्वयापतेरिति । किञ्च प्रादीनां वाचकत्वे भूयान् प्रकर्षः कीदृशो निश्रय इतिवद्भूयान् म, कीदृशोनिरित्यपि स्यात् । अस्मन्मते प्रादेरनकत्वान्न तदन्वय इत्यतएव द्योतकता तेषां स्यादिति । साधकान्तरमभिप्रेत्याह । विशेषणेति । शोभनः समुच्चयो द्रष्टव्य इतिवच्छोभन श्च द्रष्टव्यइत्यस्यापत्तेस्तुल्यसमाधेयत्वादिति भावः आप च निपातानां वाचकत्वे प्रातिपदिकार्थयोर्विना षष्ठयादिकं भेदेनान्वयासम्भवः | अन्यथा राजा पुरुष इत्यस्य राजसम्बन्धी पुरुषइत्यप्यापतेरित्यभिप्रेत्याह आदीति । धवखदिरयोः
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy