SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७७ निपातार्थनिर्णयः। समुच्चयइतिवद्धवस्य च खदिरस्य चेत्येव स्यादिति भावः ।।२। - ननु प्रातिपदिकार्थयोरभेदान्वयबोधे विभक्तिजन्योपस्थिति हेतुरिति कार्यकारणभावो निपातातिरिक्तविषयएवेति नोक्तदोष इत्याशङ्कयाह । पदार्थः सदृशान्वेति विभागेन कदाचन । निपातेतरसङ्कोचे प्रमाणं किं विभावय॥४३॥ ___ (सदृशा) सदृशेन समानाधिकरणेनेति यावात् । (अन्वेति) अभेदेनेति शेषः । ( विभागेन ) असदृशेन । असमानाधिकरणेनेति यावत् । अयमर्थः समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्ति निपातातिरिक्तविषयेति कल्पने मानाभावो गौरवश्च । अस्माकं निपातानां द्योतकत्वादन्वयएव नास्तीति नायं दोषः अतएव घटोनास्तीत्यादौ घटपदं तत्प्रतियोगिके लाक्षणिकीमति नैयायिकाः ॥ ४३ ॥ · अपि च निपातानांवाचकत्वे काव्यादावन्वयोन स्यादिति साधकान्तरमाह । शरैरुपैरिवोदीच्यान् उद्धरिष्यन् रसानिव । इत्यादावन्वयोन स्यात्सुपाञ्च श्रवणं ततः।४४। अत्रोस्रसदृशैः शरैः रससदृशानुदीच्यानुद्धरिष्यान्नित्यर्थः। अयश्चोस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य द्योतकत्वे सङ्कच्छते । अन्यथा प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्प त्तिविरोधः । तथाहि । उनैरिति करणे तृतीया । न चोस्रोऽत्र
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy