SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७८ वैयाकरणभूषणसारे | करणम् इवार्थसदृशस्य करणत्वेऽपि तस्य करणत्वं नानेन बोधयितुं शक्यम् अप्रकृत्यर्थत्वात् । इवशब्दस्य चासत्वार्थकतया तदुत्तरतृतीयाया असम्भवात् । सम्भवे वा श्रवणप्रसङ्गात् । उस्रपदोत्तर तृतीयानन्वयप्रसङ्गाच्चेत्याह । सुपां चेति । सुप श्रवणञ्चेत्यर्थः । चकारादुखपदोत्तरतृतीयानन्वयः समुच्चीयते इत्यादावित्यादिपदात् -" वागर्थाविव सम्पृक्तौ पार्व्वतीपरमेश्वरौ वन्दे " इत्यत्र वागर्थयोर्वन्दिकर्मत्वाभावात्तदुत्तरद्वितीयाया अनन्वयः इवार्थस्य कर्मत्वान्वयबोधासम्भवश्च संगृह्यते । यदि च विशेषणविभक्तिरभेदार्था साधुत्वमात्रार्था वा तदापि इवशब्दस्य वाचकत्वेऽनन्वयएव उस्रशदृशशराणां समानाधिकरपदोपस्थाप्यतया भेदेनान्वयायोगात् । बाधादभेदेनापि न सः नह्यस्त्राभिन्नसदृशाभिन्नः शर इत्यर्थ इष्टव्यः ॥ ४४ ॥ ननु त्वन्मते अब्राह्मणइत्यादौ तत्पुरुषलक्षणाव्याप्त्यापत्तिः पूर्वपदस्यानर्थकत्वेनैवोत्तरपदार्थप्राधान्याभावात् उपसर्गस्यावाभावेन प्रातिपदिकत्वाभावाद्विभक्तिश्च ततो न स्यादित्यत आह । नञ् समासे चापरस्य द्योत्यं प्रत्येव मुख्यता । द्योत्यमेवार्थमादाय जायन्ते नामतः सुपः ॥ ४५ नञ्समासादौ योत्तरपदप्रधानता सा द्योत्यमर्थमादायैव । तमेवार्थमादायार्थवत्त्वात्प्रातिपदिकत्वमित्यर्थः । वस्तुतः अव्ययादाप्सुपइति शापकात्सुबुत्पात्तः । “निपातस्यानर्थकस्येति " वार्त्तिकाद्वा प्रातिपदिकत्वम् । " कृत्तद्धितसमासा " चेत्यनुक्त
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy