SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ८२ वैयाकरणभूषणसारे । दाहाय्र्यः । दामोदरत्वं कृष्णसर्पत्वमित्यादौ जातिविशेषेण बोधादाह अन्यत्रेति रूढ़ेरभिन्नरूपादव्यभिचरितसम्बन्धेभ्यश्चान्यत्यर्थः रूढ़िरुक्ता । द्वितीयं यथा शुक्लत्वम् अत्र तदस्यास्त्यास्मीनिति मतुपो “गुणवचनेभ्यो मतुपो लुगिष्ट" इति लुप्तत्वात्तद्धितान्तत्वेऽपि घटः शुक्ल इत्यभेदप्रत्ययाद्गुणस्यैव प्रकारत्वेन भानं जायते तृतीये सतोभावः सत्तेति अत्र जातावेव प्रत्यइति दिक् ||४८|| दण्डीत्यादौ प्रकृत्यर्थविशिष्टद्रव्यमात्रवाचकता तद्धितस्येति वदन्तं मीमांसकम्मन्यं प्रत्याह । अत्रार्द्धजरतीयं स्यात् दर्शनान्तरगामिनाम् । सिद्धान्ते तु स्थित पक्षद्वयं त्वादिषु तच्छृणु ।४९ ( अ ) भावप्रत्ययविषये । तथा हि दामोदरत्वं घटत्वमित्यादौ भावप्रत्ययस्य सम्बन्धानभिधायकत्वेन मीमांसकानां दण्डित्वमित्यादिष्वपि तदभिधानं न स्यात् । प्रकृतिजन्यबोधे प्रकारः प्रकृत्यर्थसमवेतोहि तदुत्तर्भावप्रत्ययेनाभिधीयते । अन्यथा घटत्वमित्यत्र द्रव्यत्वादेर्द्दण्डित्वमित्यादौ दण्डादेश्च तदुत्तरभावप्रत्ययवाच्यतापत्तेः । नच तन्मते दण्डीत्यादिबोधे सम्बन्धः प्रकारः । यत्तु यदा स्वसमवेतोऽत्र वाच्योनास्ति गुणोऽपरः । तदा गत्यन्तराभावात्सम्बन्धो वाच्य आश्रितइति ॥ तन्न इन्यादेः सम्बन्धवाचकत्वेनोपपत्तौ गत्यभावाऽभावात् । प्रपञ्चितं चैतदादावेव वैयाकरणभूषणे ननु तवापीदं वैषम्यं कथमित्यत आह सिद्धान्तेत्विति ॥ ४९ ॥
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy