SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ त्वादिभावप्रत्ययार्थनिर्णयः। ८१ परेषां यन्निपातत्वम् असत्त्वार्थकत्वे सति चादिगणपठितस्वं शक्तिसम्बधेन निपातपदवत्वञ्चोपार्जाितिर्वा तदेवास्माकमपि । परन्तु सामान्यधर्मे प्रमाणानां पक्षपाताच्छक्तता द्योतकता वा तदवच्छेदेनैव वल्पेयति नैयायिकोक्तं प्रादिचाद्यो:पम्यमयुक्तमित्यर्थः । (व्यापकत्वात्) सामान्यत्वात् । शक्ततायाइत्युपलक्षणं द्योतकताया वेत्यपि द्रष्टव्यम् ॥४७॥ इति वैयाकरणभूषणसारे निपातानां द्योतकत्वादिनिर्णयः । भावप्रत्ययार्थमाह । कृत्तद्धितसमासेभ्यो मतभेदनिवन्धनम् । त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ॥४८॥ "कृत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावप्रत्ययेनान्यत्र रूट्यभिन्नरूपाव्यभिचरितसम्बन्धेभ्य" इति वार्तिकवचने मीमांसकादीनां भ्रममपाकुर्वन्नाह (टीकायामिति) भर्तृहरिणा महाभाष्यटीकायामित्यर्थः । त्वतलोरिति भावप्रत्ययमात्रोपलक्षणम् अयमर्थः समासादौ शक्तिः कल्प्यमाना राजादिसम्बन्धविशिष्ठे कल्पयत इत्युक्तम् । तथा च तदुत्तरभावप्रत्ययःसम्बन्धं वदतीत्यर्थः । एतदपि भेदः संसर्ग उभयं वेत्युक्तेषु भेदपक्षे न सम्भवतीत्यत आह मत भेदेति पक्षभेदेनेत्यर्थः । एवञ्च राजपुरुषत्वम् औपगवत्वं पक्तत्वम् इत्यादौ स्वस्वामिभावसम्बन्धः। अपत्यापत्यवत्सम्बन्धः क्रियाकारकभावसम्बन्धइत्यन्वयवाधेः। औपगवादावव्यभिचरितसम्बन्धे तु अर्थान्तरवृत्तिस्तद्धित उ
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy