SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ त्वादिभावप्रत्ययार्थनिर्णयः । ८३ तौ पक्षावाह । प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थे प्रकारताम् । धर्म्ममात्रं वाच्यमिति यद्वा शब्दपरा अमी | जायन्ते तज्जन्यबोधप्रकारे भावसंज्ञिते । ५०| प्रयोगे उपाधिं निमित्तं प्रकृत्यर्थे प्रकारताम् प्रकारतया भासमानं धर्मे वाच्यतया आश्रित्य त्वादयो जायन्ते प्रकृतिजन्यबोधेप्रकारस्त्वाद्यर्थइति यावत् । ननु घटत्वमित्यत्र प्रकारत्वात्तदुत्तरभावप्रत्ययेन घटत्वत्वस्यापि वाच्यता स्यादित्यत्रेष्टापत्तिमाह धर्म्ममात्रमिति नत्वत्र लघुगुरुविचार इत्यभिप्रायः ।। तत्तद्व्यक्तिविशिष्टब्रह्मसत्ताया एव घटत्वघटत्वत्वा'दिरूपत्वात् । सम्वन्धिभेदात्सत्चैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः । तां प्रातिपदिकार्थञ्च धात्वर्थञ्च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयइति वाक्यपदीयात् । उक्तञ्च “ तस्य भावस्त्वतलाविति " सूत्रे वार्त्तिककारैः “ यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदनिधाने त्वतलाविति " । ( यस्य गुणस्य ) विशेषणतया भासमानस्य (भावात् ) आश्रयत्वात् (द्रव्ये) विशेष्ये (शब्दनिवेश:) शब्द - प्रवृत्तिः तस्मिन् वाच्ये त्वतलावित्यर्थः । तथा च रूपादिश ब्देभ्यो जातौ शुक्लाणुदीर्धमहदादिभ्यो गुणे, पाचकादिशब्देभ्यः क्रियायां घटादिशब्देभ्यो जातौ प्रत्ययः रूपादि •
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy