SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ८४ वैयाकरणभूषणसारे । शब्दानां जातिप्रकारकबोधजनकत्वात् । पाचकादिशब्दानां क्रियाप्रकारकबोधजनकत्वे तस्यां प्रत्ययः । संसर्गप्रकारकबोधजनकत्वमिति मते च संसर्गे इति व्यवस्था मूपपादेति भावः । तत्र जातिवाचकानां व्यक्तय एव शक्यतावच्छेदिकाः । तथा च घटत्वमित्यत्र घटवृत्तिरसाधारणो धर्म इत्यादि द्रष्टव्यम् । पक्षान्तरमाह यद्धति। " यद्वा सर्वे भावाः स्वे नार्थेन भवन्ति स तेषां भाव" इति वार्तिकोक्तेः॥ य द्वा शब्दस्तत्सूचनप्रयोजनकोऽपि (भवन्ति) वाचकत्वेन प्रवतन्ते इति भावाः शब्दाः (स्वेन रूपेणअर्थेन ) (भवन्ति) पूर्वतन्ते असः (स तेषां भावः) प्रवृत्तिनिमित्तमित्यर्थः । अयं भावः । अर्थवच्छब्दोऽपि द्रव्ये पूकारः हरिहरनलेक्ष्वाकुयुधिष्ठिरवशिष्ठादिशब्देभ्यस्तत्तद्वाच्यः कश्चिदासीदितिशब्दपूकारकबोधस्य सर्वसिद्धत्वात् । अन्यथा वनौषधिवर्गादेनागरिका न् प्रत्यबोधकत्वापत्तेश्च । एवमेवापूसिद्धार्थकपदष्वनुभवः सर्वसिद्धः नतु घटादिपदेष्विव तत्तज्जात्यादिरूपण । तथा चोभयमवच्छेदकम् । यस्य तथा शक्तिग्रहस्तस्य जात्यादिरूपेणवोपस्थितिः । पदपूकारकः शक्तिग्रहस्तु विशिष्य नापेक्षितः किं तु इदं पदं कचिच्छक्तं साधुपदत्वादित्यादिरूप एवापेक्ष्यते इति विशिष्यागृहीतशक्तिकेभ्यस्तथैव बोधः । तथा च शब्दोऽपि त्वपूत्ययार्थइति पूपश्चितं भूषणे ॥५०॥ " इति वैयाकरणभूषणसारे त्वादिभावप्रत्ययार्थविचारः ।
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy