________________
तद्धितार्थनिर्णयः ।
८५
सास्य देवतेत्यत्र देवताविशिष्टं देयं प्रत्ययार्थः ऐन्द्रः वैश्वदेवी इत्यादौ इन्द्रादेर्देवतात्वोपस्थापकान्तराभावात् तेन रूपेणोपस्थितये शक्तिकल्पनावश्यकत्वात् । अतएव
आमिक्षां देवतायुक्तां वदत्येवैष तद्धितः । आमिक्षापदसान्निध्यात्तस्यैव विषयार्पणमिति । केवलाद्देवतावाची तद्धितोऽग्नेः समुच्चरन् । नान्ययुक्तोऽग्निदैवत्यं प्रतिपादयितुं क्षम इति च
मीमांसकैरप्युक्तमित्याशयेनाह । प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थोविशेषणम् । अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः । देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा । ५१|
( एकदेशे ) देवतारूपे । तच्च विशेषणमभेदेनेत्याह अभेदचेति । ननु देवतायाः प्रत्ययार्थैकदेशत्वान्न प्रकृत्यर्थस्य तत्राभेदेनाप्यन्वय इत्याशयेनाह देवतायामिति । तथा च पदार्थकदेशतैव नास्तीति भावः ॥ ४१ ॥
नवग्न्यादिदेवस्य प्रकृत्यैव लाभान्न तत्र शक्तिः कल्प्या नच देवतात्वरूपेणोपस्थितये सा कल्प्यते प्रकृतेर्लक्षणयैव तथोपस्थितिसम्भवात् । उपसर्गाणां द्योतकत्वनये प्रजपतीत्यत्र प्रकृष्टजपवदित्याभिप्रेत्याह ।
प्रदेय एव वा शक्तिः प्रकृते स्त्वस्तु लक्षणा । देवतायां निरूढेति सर्वे पक्षा अमी स्थिताः । ५२ ।
-