SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ५० वैयाकरणभूषणसारे । नचैवं घटत्वमपि वाच्यं स्याच्छक्यतावच्छेदकत्वात्तथा च 1 नागृहीतविशेषणन्यायात्तदेव वाच्यमस्त्विति शंक्यम् अकारणत्वेऽपि कारणतावच्छेदकत्ववदलक्ष्यत्वेऽपि लक्ष्यतावच्छेदकत्ववत्तथापि सम्भवात् । उक्तश्च I आनन्त्येsपिं हि भावानामेकं कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो नच व्यभिचरिष्यतीति । वस्तुतस्तु “न ह्याकृतिपदार्थस्य द्रव्यं नं पदार्थ " इति भाष्याद्विशिष्टं वाच्यम् । एकमित्यस्य चायमभिप्रायः शक्तिशाने विषयतयावच्छेदिका जातिरेकैव । तथा च घटत्वविशिष्टबोधे घटत्त्रांशे अन्याप्रकारकघुद्धत्वशक्तिज्ञानत्वेन हेतुतेति कार्यका रणभावइत्यादि प्रपञ्चितं भूषणे । तदेतदभिप्रेत्याह द्विकमिति । जातिव्यक्ती इत्यर्थः पूर्व्वपक्षविरोधपरीहारः पूर्ववत् । त्रिकमिति | जातिव्यक्तिलिङ्गानीत्यर्थः । सत्वरजस्तमोगुणानां साम्याबस्था नपुंसकत्वम् । आधिक्यं पुंस्त्वम् । अपचयः स्त्रीत्वं तत्तच्छब्दनिष्ठं वाच्यम् । तमेव विरुद्धधर्म्ममादाय तटादिशब्दा भिद्यन्ते । केषाञ्चिदनेकलिङ्गत्वव्यवहारस्तु समानानुपूर्वीकत्वेन शब्दानामभेदारोपात् । एवञ्च पदार्थपदे पुंस्त्वमेव । व्यक्तिपदे स्त्रीत्वमेव । वस्तुपदे नपुंसकत्वमेवेति सर्वत्रैवायं पदार्थः, इयं व्यक्तिः । इदं वस्त्विति व्यवहारः तटस्तटी तटमिति चोपपद्यते । तच्च लिङ्गमर्थपरिच्छेदकत्वेनान्वेतीति पश्वादिशब्दोक्तं " पशुना स्तौति" पशुनेत्यादिविधि र्न छाग्यादीनङ्गत्वेन प्रयोजयतीति विभावनीयम् । नच व्यक्त्यादिशब्दोक्तलिङ्गस्येव
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy