SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। ग्रहीतुमलम् भावना तु प्रधानं तं ग्रहीतुं समर्थेति प्रकरणात् क्रत्वर्थतव। अस्तु वा ऋतुयुक्तपुरुषधर्मः अनुष्ठानविशेषाभावात् "जञ्जभ्यमानो न व्यान्मायदक्षक्रतू ,, इति वाक्योक्तमन्त्रविधिवदित्यादि भूषणे प्रपश्चितम् । नन्वाख्यातस्य भावनायामसाधुत्वे ततस्तद्धोधो न स्यात् साधुत्वज्ञानस्य शाब्दबोधहेतुत्वादित्यत आह बोधात असाधुत्वेऽपि साधुत्वभ्रमाद्बोधोऽस्तु नाम अपभ्रंशवत् । असाधुत्वन्तु स्यादेवेतिभावः वस्तुतः साधुत्वज्ञानं न हेतुस्तद्वयतिरेकनिर्णयोऽपि न प्रतिबन्धक इत्यसाधुरनुमानेनेत्यत्र वक्ष्यामः २१॥ रङ्गोजिभट्टपुत्रेण कौण्डभट्टेन निम्मिते । पूर्णाभूषणसारेऽस्मिन् धात्वाख्यातार्थ निर्णयः । इति वैयाकरणभूषणसारे धात्वाख्यातसामान्यार्थयोर्निरूपणम् । अथ लकारार्थनिरूपणम् । प्रत्येकं दशलकाराणामर्थ निरूपयति । वर्तमाने परोक्षे श्वो भाविन्यर्थे भविष्यति । विध्यादौ प्रार्थनादौचक्रमात्ज्ञेयालडादयः २२ ____ लड़ादयष्टितः षट् क्रमेणार्थेषु द्रष्टव्याः । तथाहि वर्तमानेऽर्थे लद, "वर्तमाने लाहि, ति सूत्रात् । प्रारब्धापरिसमाप्तत्वं भूतभविष्यद्भिन्नत्वं वा वर्तमानत्वम् । पचतीत्यादावधिश्रयणाद्यधःश्रयणान्ते मध्ये तदस्तीति भवति लट्मयोगः।आत्मास्ति पर्वताः
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy