SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ३२ वैयाकरणभूषणसार सन्तीत्यादौ तत्तत्कालिकीनां क्रियाणामनित्यत्वात्तद्विशिष्टस्योत्पत्यादिकमादाय वर्तमानत्वमूह्यम् उक्तञ्च भाष्ये "इह भूतभावष्यद्वर्तमानानां राज्ञां क्रियाः तिष्ठतेरधिकरणमिति,,। परतोभिद्यते सर्वमात्मा तु न विक्सपते । पर्वतादिस्थितिस्तस्मात्पररूपेण भिद्यत इति । वाक्यपदीये च । एवं "तमआसीत्,, "तुच्छेनाभ्यापिहितं यदासीत्,, "अहमेकः प्रथममासं वामि च भाविष्यामि,, चेत्यादिश्रुतयोऽपि योंज्याः, तच्च वर्तमानत्वादि लड़ादिाभोत्यते, क्रियासामान्यवाचकस्य तद्विशिष्टे लक्षणायां लड़ादिस्तात्पर्य्यग्राहकत्वेनोपयोगात्, अन्वयव्यतिरेकाभ्यां तद्रूपं लड़ादिवाच्यमेव, अन्यथाप्रत्ययानां वाचकत्वविलोपापत्तिरित्यापि पक्षान्तरम् ॥ लिडर्थमाह परोक्षे इति “परोक्षे लिडिति,, मूत्रात् , कालस्तावदद्यतनानद्यतनभेदेन द्विविधः द्विविधोऽपि भूतभविष्यद्रूपः, तित्रानद्यतने भूते परोक्षे लिडित्यर्थः, तेनाद्यतने मृते अनद्यतने चे न लिट् प्रयोगः स्यात्, परोक्षत्वञ्च । साक्षात्करोमीत्येताहशविषयताशालिज्ञानाविषयत्वम् , नच "क्रिया नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितुं,, मिति . * वाचकत्वपक्षमवलम्ब्याऽऽह । अन्वयव्यतिरेकाभ्यामित्यादि । न च तक्रकौण्डिन्यन्यायात्कळद्यर्थ बाधः शक्तताऽच्छेदकभेदात् किं चैवं लाकमणीतिसूत्रं निरवकाशं स्यात् स्थलाऽन्तरेऽपि विध्याद्यर्थैर्बोधसम्भवादिति भावः। । ननु परोक्षत्वं प्रत्यक्षाऽन्यज्ञानविषयत्वम् । तथाच प्रत्यक्षक्रियायामपि श्रुतानुमितत्वयोः सत्वात्पपाचेत्यादिप्रयोगाऽऽपत्तिरत आह । परोक्षत्वञ्चेति ।
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy