SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणसारे विधीयन्ते नकारविसगादिनिष्ठां कर्मकरणादिबोधकशक्तिमादाय शसादिविधानवत् । नच सूत्रे कर्तृकर्मपदे कर्तृत्वकर्मत्वपरे तथा च कर्तृत्वं कृतिः, कर्मत्वञ्च फलमेवार्थोऽस्त्विति शंक्यम, फलव्यापारयाधातुलभ्यत्वेन लकारस्य पुनस्तत्र शक्तिकल्पनाऽयोगात् । अथ दर्शनान्तरीयरीत्या व्यापारस्य धात्वर्थत्वाभावात्तत्र लकारबिधिः स्यादिति चेत्तर्हि कृतामपि कर्तृकादिवाचित्वं न सिध्येत् "कर्तरि कृदिति" च, "लः कर्मणी" त्यनेन तुल्ययोगोमम् * । अपि च मीमांसकानां कृतामिवाख्यातानामाप कर्तृवाचित्वमस्तु भावनायाएवाक्षेपेण कृदादिवत्प्रतीतिसम्भवे वाच्यत्वं मास्तु । तथा सति प्राधान्य तस्या न स्यादिति चेन्न घटमानयेत्यादावाभिप्तव्यक्तेराप प्राधान्यवदुपपत्तेः । पचतीत्यादौ पार्क करोतीति भावनाया विवरणदर्शनाद्वाच्यत्कमिति चेत् पाकानुकूलव्यापारवतः कर्तुंरपि विवरणविषयत्वाविशेषात् । न च कर्तुविवरणं तात्पर्य्यार्थविवरणं पाकं कसेतीत्यशब्दार्थकर्मत्वविवर __* अलब्धलाभो योगो लब्धरक्षणं क्षेममेवश्च लाकर्मणीत्यस्यानन्यलब्धभावनाया आख्यातार्थप्रतिपादकत्वोपगमे न्यायसाम्यात्तीरकदित्यस्यापि कृतां भावनार्थत्वप्रतिपादकत्वन्तस्याऽऽक्षेपादेव लाभान कृतांतच्छक्तिप्रतिपादकं तदिति यदि तत्तर्हि लाकर्मणीत्यपि नाख्यातस्य भावनाशक्तिप्रतिपादकमिति समानमित्यर्थः। + तत्र तस्यति वतिः कृदादिस्थल इवेत्यर्थः । तथाच यथा भवन्मते धातोापाराऽबाचाबेन कृदर्थक क्षिप्तभावनाया बोधविषयत्वं तथाऽऽख्यातस्यापि व्यापाराऽबाचकत्वेन आख्यातार्थक क्षिप्तभाबनाया बोधविषयत्वं भविष्यतीति भावः। जातिः पदार्थ इति मते जात्याक्षिप्तव्यक्तेर्यथा प्राधान्यं तथा काऽऽक्षितभावनाया अपि प्राधान्यमुपपत्स्यत इत्यर्थः ।
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy