SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ थात्वर्थनिर्णयः।। दिन्यायेन बुद्धिविशेषादेः शक्यतावच्छेदकानामनुगमकस्य सत्वात् । आख्याते क्रियैकत्वव्यवस्थापि अवच्छेदकबुद्धिविशेषैक्यमादायैव । उक्तञ्च वाक्यपदीये। गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्धया प्रकल्पिताभेदः क्रियेति व्यपदिश्यतइति ॥ धात्वर्थनिरूप्य तिर्थमाह ( आश्रयेत्विति ) फलाश्रये व्यापाराश्रयेचेत्यर्थः । फलाश्रयः कर्म, व्यापाराश्रयः कर्ता । तत्र फलव्यापारयोर्धातुलभ्यत्वान्न तिङस्तदंशे शक्तिरन्यलभ्यत्वात् । शक्यतावच्छेदकं चाश्रयत्वं तत्तच्छक्तिविशेषरूपमिति सुबर्थनिर्णये वक्ष्यते । नन्वनयोराख्यातार्थत्वे किं मानम् प्रतीते* लक्षणया, आक्षेपात प्रथमान्तपदाद । वासम्भवादिति चेत् अत्रोच्यते। "लः कर्माण च भावे चाकर्मकेभ्य" इति । सूत्रमेव मानम् । अत्र हि चकारात् “करि कृदिति" सूत्रोक्तं कर्तरीत्यनुकृष्यते बोधकतारूपां तिबादिशक्ति तत्स्थानित्वेन कल्पिते लकारे प्रकल्प्य लकाराः कर्माण करि चानेन * "यद्यद्वोधकन्तत्तदर्थकमिति" नियमादाख्यातकर्तृकर्मप्रतीति रेव मानमिति भावः। आक्षेपोनुपपत्तिस्तत इत्यर्थः । तथाहि अन्विताऽभिधानवादिमते पदानां विशेषणत्वेनैवाऽर्थोपस्थापकतयाऽऽख्यातार्थभावनाया विशेषणता ऽनुपपत्या तस्याश्रयाक्षेपकत्वमिति । * ननु व्याप्त्यादिप्रतिसंधानं विनाप्याश्रयवोधस्यानुभवसिद्ध. त्वान्नाक्षेपादाश्रयभानोपपत्तिः क्वाचित्कत्वात्तथाभानस्येत्यत आह । प्र. थमान्तपदाद्वेति समाभिव्याहृतप्रथमान्तचैत्रादिपदादेवाश्रयप्रतीत्युपप तेरित्यर्थः । एवञ्च नाश्रयप्रतीत्यनुपपत्तिः आश्रये आख्यातशक्तिसा. धिकति भावः
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy