SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणसारे क्तिरितोऽप्यधिकं जिज्ञासुभिः शब्दकौस्तुभे द्रष्टव्यमिति ध्वनयि तुम् ॥ १ ॥ २ प्रतिशातमाह । फलव्यापारयो र्धातुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥२॥ धातुरित्यत्र स्मृतइति वचनविपरिणामेनान्वयः । फलं बिक्लिश्यादि, व्यापारस्तु भावनाभिधा साध्यत्वेनाभिधीयमाना क्रिया । उक्तञ्च वाक्यपदीये । यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् * सा क्रियेत्यभिधीयते इति ।। न च साध्यत्वेनाभिधानेमानाभावः, पचति, पाकः, करोति, कृतिरित्यादौ धात्वर्थावगमाविशेषेऽपि क्रियान्तराकाङ्क्षानाकाक्षयोर्दर्शनस्यैव मानत्वात् । तथा च क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपं साध्यत्वम् तद्रूपवत्त्वमसत्वभूतत्वम् एतदेवादाय । असत्वभूतोभावश्च तिङ्पदैरभिधीयते । इति वाक्यपदीयमिति द्रष्टव्यम् । अयञ्च व्यापारः फूत्कारत्वाधः सन्तापनत्वयत्नत्वादि - तत्तद्रूपेणवाच्यः । पचतीत्यादौ तत्तत्प्रकारकबोधस्यानुभवसिद्धत्वात् । नच नानार्थतापात्तः, तदा * आश्रितं क्रमरूपं यस्यास्तत्वात् पूर्वापरीभूताऽवयवकत्वादित्यर्थः । तदीयाऽवयवानामधिश्रयणाद्यधः श्रयणपर्यन्तानां क्रमेणोत्पत्तेः क्रियापदेन सोच्यते यत्र च नक्रमिकावयवको व्यापारस्तत्र रूढिरेवा ssदरणीय पौर्वापर्यारोपो वा फलस्यापि स्वजनकव्यापारगतपौर्वापयारोपेण तथैव भानमत एव तन्मात्रबाचकस्य धातुत्वसिद्धिरिति भावः
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy