SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ अभेदैकत्वसंख्यानिर्णयः। ८७ अभेदैकत्वसंख्याया वृत्तौ भानमिति स्थितिः। कपिञ्जलालम्भवाक्येत्रित्वं न्यायाद्यथोच्यते५४ संख्याविशेषाणामविभागेन सत्त्वम् अभेदकत्वसंख्या । उक्तश्च वाक्यपदीये। यथौषधिरसाः सर्वे मधुन्याहितशक्तयः। अविभागेन वर्तन्ते संख्यां तां तादृशीं विदुरिति । परित्यक्तविशेषं वा संख्यासामान्यं तत् । उक्तश्च भेदानां वा परित्यागात्संख्यात्मा स तथाविधः । व्यापाराजातिभागस्य भेदापोहेन वर्त्तते । अगृहीतविशेषेण यथा रूपेण रूपवान् । प्रख्यायते न शुक्लादि भेदापोहस्तु गम्यते इति । अस्याः वृत्तौ समासादौ भानं न्यायसिद्धमिति शेषः। इति मतस्थितिर्वैयाकरणानाम् । अयं भावः। राजपुरुष इत्यादौराज्ञोराकोः राज्ञां वायं पुरुषइतिजिज्ञासा जायते । विशेषजिज्ञासायां सामान्यरूपेण तत्प्रतीतिः शब्दादावश्यकी अतस्तस्यां शक्तिरिति । तस्याएकत्वेन प्रतीतौ न्यायमाह कपिअलेति । बहुत्वगणनायां त्रित्वस्यैवप्रथमोपस्थितत्वात् तद्रूपेणैव भानवदेकत्वस्य, सर्वतः प्रथमोपस्थितत्वमस्तीति भावः वस्तुतस्तु जिज्ञसैव नानुभवसिद्धा । तथात्वे वा ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावात्तत्तद्रूपेणैव वाच्यता स्यादिति ध्येयम् ॥ ५४॥ इति वैयाकरणभूषणसारे अभेदकत्वसंख्यानिरूपणम् ।
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy