SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६५ समासशक्तिनिर्णयः। राजपुरुषइत्यादौ राजा चासौ पुरुषश्चेत्येव विग्रहः । चित्रगुरित्यादौ च चित्राणां गवामयमित्येव समानार्थानुरोधात् । यद्यपि प्रथमान्तानामेव बहुब्रीहिरिति" शेषोबहुब्रीहिरिति मूत्राल्लभ्यते इति प्राथमान्तं पक्षे वाक्यं चित्रा गावोयस्येत्येवं सम्भवत्येव । षष्ठीति समासविधानाद्राज्ञः पुरुषइति च पक्षे वाक्यम् तथापि तस्य न विग्रहत्वम् भिन्नार्थत्वात् किन्तूक्तस्यैवेति मीमांसकाः । तान् प्रसङ्गानिरस्यति । आख्यातं तद्धितकृतोर्यत्किञ्चिदुपदर्शकम् । गुणप्रधानभावादौ तत्र दृष्टोविपर्ययः॥३४॥ तद्धितकृतोर्यत्किञ्चिदर्थबोधकम् विवरणमाख्यातं तत् बिपर्ययोदृष्टः। तथा हि । आक्षिकः कुम्भकारइत्यताक्षकरणकब्यापाराश्रयः कुम्भोत्पत्त्यनुकूलव्यपाराश्रय इति बोधः । अक्षैर्दीव्यति कुम्भं करोतीत्यत्राक्षकरणिका देवनानुकूला भावना कुम्भोत्पत्त्यनुकूला भावनेति बोधः। कृत्पत्ययेकारकाणामाख्याते च भावनायाः प्राधान्यं वदतोमीमांसकस्यापीति गुणप्रधानभावांशव्यत्यासो न विवरणत्वबाधकइति नातू पाक्षिकस्य चित्रागावो यस्येत्यादोर्वग्रहत्वे बाधकमस्तीति भावः ॥ ३४ ॥ नन्वस्तूक्तरीत्या सर्वत्र समासे शक्तिरस्तु च तथा विग्रहस्तथापि षष्टीतत्पुरुषकर्मधारययोः शक्तिमत्त्वाविशेषानिषादस्थपत्यधिकरणसिद्धान्तसिद्धिर्न स्यात् इत्यत आह । पर्यवस्यच्छाब्दबोधाविदूरप्राक्क्षणास्थिते । शक्तिगहेऽन्तरङ्गत्ववहिरङ्गत्वचिन्तनम्॥३५॥
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy