SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः । ३९ च क्रियायाः फलस्य च धातुनैव लाभादनन्यलभ्य आश्रयएवार्थः तत्त्वञ्चाखण्डशक्तिरूपमवच्छेदकम्, *ओदनं पचतीत्यत्र विक्लित्त्या श्रयत्वात्कर्म्मता घटं करोतीत्यत्रोत्पत्न्याश्रयत्वात् उत्पत्तेर्धात्वर्थत्वात् जानातत्यित्रावरणभङ्ग ं रूपज्ञाधात्वर्थफलाश्रयत्वात् अतीतानागतादिपरोक्षस्थलेऽपि ज्ञानजन्यस्य तस्यावश्यकत्वात् अन्यथा यथा पूर्व्वं न जानामीत्यापत्तेः अतीतादेराश्रयता च विषयतया ज्ञाना * अखण्डशक्तिरूपमिति । शक्तिर्धर्मः इतरपदार्थाघटितमूर्तिकधर्मरूपमिति यावत् आश्रय इत्यनुगतव्यवहारादाश्रयपदशक्यता - वच्छेदकत्वाश्च तत्सिद्धिद्रव्यत्वादिवदिति भावः । नैयायिकास्तु आश्रयताया नियतान्यनिरूपितस्वरूपाया अनुगमकत्वसम्भवः शक्यतावच्छेदकत्वस्यापि विभुत्वान्यतरत्वादौ व्यभिचारेण नाखण्डत्वसाधकत्वमिति न द्वितीयाया आश्रयोर्थः तस्य प्रकृत्यैव लाभात् प्रकृत्य भिन्नत्वेन तत आश्रयस्याननुभवाच्च । किं तु फलान्वायनी कृतिरेव तदर्थः । कर्मणि द्वितीयेत्यस्य फलनिष्ठाधेयत्वान्वये प्रकृतितात्पय्ये तदुत्तरं द्वितीयेत्यर्थात् तद्विरोधोपि अनादितात्पर्यग्राहकत्वेन परम्परया शक्तिग्राहकत्वाच्च न तद्वैय्यर्थ्यम् । आश्रयत्वं तु न तच्छक्यं तस्य निरूपकतासम्बन्धेनैव फलान्वयित्वस्या भ्युपगन्तव्यतयानिरू पकत्वस्य च वृत्त्यनियामकतया भावप्रतियोगितानवच्छेदकत्वेन विहगो भूमिं गच्छति न महीरुहमित्यादौ धात्वर्थफले संयोग महीरुह निष्ठाश्रयतायास्तेन सम्बधेनाभावस्याप्रसिद्धतया तत्राबोधत्वा सम्भवान्न च सूत्रस्वरसभङ्गः । शक्तिः कारकमितिपक्षे तदयोगात् आधेयताया अपि निरूपकतया कारकधर्मत्वादित्याहुः । + आवरणभङ्गेति । प्रचनिमताऽनुसारेणेदं निकृष्टमते तु शानरूपफलस्यविषयतया घटादौ सत्त्वात्कर्मतेति बोध्यम् । न चाकर्मकतापत्तिः फलतावच्छेदकसम्बन्धेन सामानाधिकरण्याभावात् । नैयायिकमते त्वेतादृशस्थले यथा घटादीनां कर्मत्वम् तथोपपादितम् धात्वर्थनिरूपणावसरे |
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy