SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ थात्वर्थनिर्णयः। पचति पाकमुत्पादयति पाकानुकूला भावना तादृश्युत्पादनेत्यादिविवरणाद्विवीयमाणस्यापि तद्वाचकतेति भावः। व्यापारपदं * फूत्कारादीनामयत्नानामपि फूत्कारत्वादिरूपेण वाच्यतां ध्वनयितुमुक्तम् अतएव पचतीत्यत्राधःसन्तापनत्वफूतकारत्वचुल्लुयपारिधारणत्वयनत्वादिभिर्बोधः सर्वसिद्धः नचैवमेषां शक्यतावच्छेदकत्वे गौरवापत्त्या कृतित्वमेव तदवच्छेदकं वाच्यं रथो गच्छति । जानातीत्यादौ च व्यापारत्वादिप्रकारकबोधो लक्षणयति नैयायिकरीतिः साध्वी, शक्यतावच्छेदकत्वस्यापि+ लक्ष्यतावच्छेदकत्ववद्गुरुणि सम्भवात् तयोर्वैषम्ये वीजाभावात नच पचति पाकं करो___* ननु “या क्रिया भावना सैवोत्पादनाऽपि च सास्मृते" त्युक्तेऽपि क्रियाया भावनात्वलाभे किमिति व्यापारपदोपादानमत आह । व्यापारपदश्चेति । तथा च व्याप्रियतेऽनेनेतिकरणव्युत्पन्नेन भावव्युत्पन्नेन वा व्यापारपदेन फलानुकूलयावतामधिश्रयणादीनां भावनात्वलाभः क्रियापदेन तु कृतिपदवद्यत्नमात्रार्थकेनोक्तविवरणात्कृतेरेव भावनात्व. लाभः स्यादिति तदुपात्तमिति भावः । + यद्रीत्या नैयायिकैः कृतित्वस्याऽऽख्यातवाच्यत्वं व्यवस्थापित तद्रीत्यैव धातोः कृतित्वं शक्यतावच्छेदकं भविष्यतीति तटस्थाऽऽशकां निराकरोति । नचैवमेषामिस्यादि । नचेति साध्वीत्यनेनान्वितम् । - ननु कृतेरेवधात्वर्थत्वे रथादावचेतने तद्वाधात्तादृशप्रयोगानु पपत्तिरत आह-रथो गच्छतीत्यादि । + तथा च शक्तिर्गुरुणाऽपि धर्मेणावच्छिद्यते असति वाधके कृतित्वाल्लक्षणावदित्यनुमानात्तेषु शक्तिः सेत्स्यतीति भावः । - असम्भवति समानियते लघौ धर्मे गुरौ तदभावादित्यस्य प्रकृतेऽनवतारेण यद्यवच्छेदकत्वं स्वरूपसम्बन्धविशषस्तदा तत्स्वरूपत्वं गुरूणामप्यक्षतम् । अथारिक्तं तदा गुरुधर्मेऽपि तत्स्वीकार आवश्यकः ( गंगातीरत्वं लक्ष्यतावच्छेदकमिति व्यवहारात् । वृत्त्यवच्छे दककोटिप्रविष्टत्वस्योभयत्र साम्याच्च । तत्र न्यूनाऽतिरिक्तवृत्तित्व
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy