SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ समासार्थनिर्णयः। अपि वृत्ती त्रिविधे वाच्यत्रविध्यात् । वाच्यमेवाह । भेदइत्यादि । भेदः अन्योन्याभावः तथा च राजपुरुषइत्यादावराजकीयभिन्नइति बोधः । अस्यावाच्यत्वे च राजपुरुषः मुन्दरइतिवदाजपुरुषोदेवदत्तस्य चेत्यपि स्यात् । वाच्यत्वे सद्विरोधावं प्रयोग इति भावः। राजसम्बन्धवानित्येव शाब्दमानं भेदस्तूचरकालमुपातिष्ठतइत्याशयेनाह संसर्गइति । विनिगमनाविरहादनास्वामिकेऽपि राजपुरुषइत्यादिप्रयोगापत्तिश्च मनसिकत्योभयं वाच्यमित्याह । उभयं वति । तथा चाराजकीयभिबोराजसम्बन्धवांश्चायमिति बोधः ॥ ३० ॥ _ व्यपेक्षावादस्यैवंयुक्ति भाष्यविरुद्धत्वात्तन्मूलकः पूर्वपदार्थप्रधान इत्यायुत्सर्गोऽप्ययुक्तः। किन्तु रेखागवयन्यायेनोत्सर्गोऽपि परम्परयैव बोधकइत्याशयेन समाधत्ते । समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः३१ ___ सभासइति वृत्तिमात्रेपलक्षणम् । “समर्थः पदविधिरि " त्यत्र पदमुद्दिश्य यो विधियते समासादिः स समर्थः विग्रहवाक्याभिधानशक्तः सन् साधुरिति सूत्राथस्य भाष्याल्लाभात् । पदोद्देश्यकविधित्वञ्च कृत्तद्धितसमासैकशेषसनाचन्तधातुरूपासु पश्चस्वाप वृत्तिष्वस्त्येव । विशिष्टशक्त्यस्वीकर्तृणां मते दुषणं शक्तिसाधकमेवेत्याशयेनाह पङ्कजशब्दवदिति। पङ्कजान
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy