SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ क्वादिप्रत्ययार्थनिर्णयः। भदोदिवारणायेत्यभिप्रेत्याह । विधेये भेदकं तन्त्रमन्यतोनियमो न हि। गृहैकत्वादिहेतूनामाश्रयणमनाकरम् ॥५६॥ (भेदकम्) विशेषणम् (तन्त्रम्) विवक्षितम् विधेयविशेषणं विवक्षितमित्यस्तु तथाप्यन्यतः अनुवाद्यस्य नियमो नहि काचत्तन्त्रं कचिनेत्यर्थः । ग्रहैकत्वादौ यो हेतुः वाक्याभेदादिस्तस्यात्राश्रयणमनाकरम् । एकत्वविशिष्टं धातुं वलादित्वबिशिष्टमादधातुकचोद्दिश्य प्रत्ययेड़ागमादेविधिसम्भवादीत भावः।५६। नन्वेवं भिन्नइत्यत्र नकारद्वय लाभोन स्यादित्यत आह । रदाभ्यां वाक्यभेदेन नकारद्वयलाभतः ॥ क्षति वास्ति तन्त्रत्वे विधेये भेदकस्य तु ।५७॥ चकारसूचितं "निष्टातस्य नः, पूर्वस्य दकारस्य च न इति" वाक्यभेदमादाय नकारद्वयलाभइत्यर्थः ॥ ५७॥ इति वैयाकरणभूषणसारे संख्याविवक्षानिर्णयः। . क्त्वाप्रत्ययादेरर्थं निरूपयति । अव्ययकृत इत्युक्तेः प्रकृत्यर्थे तुमादयः। समानकर्तकत्वादिद्योत्यमेषामितिस्थितिः।५८॥ तुमादयः तुमुन्नादयः (प्रकृत्यर्थे) भावे । आदिना क्त्वादेः संग्रहः । भावे इत्यत्र मानमाह अव्ययकृतइति । “अव्ययकृतोभावे" इति वत्तिकादित्यर्थः । ननु “समानकतकयोः पूर्व
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy